________________
३०२
संगीतरत्नाकरः मध्यमं स्थायिनं कृत्वा गान्धारात्तदधस्तनात् ॥ ३४३ ॥ पश्चारुह्य निषादान्तान् गपर्यन्तावरोहणम् । कृत्वा स्थायिनिषादौ च विधायाहत्य धैवतम् ॥ ३४४ ॥ स्थाय्यन्तमवरोहेच्चेद्बङ्गालो जायते तदा ।
इति बङ्गाल:
तथा,
' मध्यमध्यममारभ्य सौवीरी मूर्च्छना भवेत् । षडन्यास्तदधोऽधःस्थस्वरानारभ्य तु क्रमात् ॥
(सं० २० १-४-१३, १४) इति च जात्याद्यन्तरभाषान्तरमार्गविषयत्वेन यः पक्ष उक्तः तत्र षड्जादिग्रहत्वोक्तेरन्यथाभावाभावाद्विरोधो नोदेत्येवेत्यलम् ॥ -३४२, ३४२- ॥
(क) एवं देशीरागविषययोर्लक्ष्यलक्षणयोर्विरोधं परिहृत्य प्रकृतमनुसंदधानो बङ्गालरागस्य स्वरसंनिवेशं दर्शयति-मध्यमं स्थायिनमित्यादि । तदधस्तनात् गान्धारादिति ल्यव्लोपे पञ्चमी । गान्धारमारभ्येत्यर्थः । निषादान्तान् पश्चारुह्येति । गमपधनीनित्यर्थः । गपर्यन्तावरोहणं कृत्वेति। निधपमगानवरुह्य स्थायिनिषादौ च मध्यमनी विधाय धैवतमाहत्य, आहताख्यगमकयुक्तं कृत्वा स्थाय्यन्तं मध्यमान्तमवरोहेद्यदि तदा बङ्गालो जायत इति बङ्गालस्य प्रथमं स्वस्थानमित्यर्थः । परमपि स्थानत्रयं मध्यमादिवदुन्नेयम् ॥ -३४२-३४४- ॥
इति बङ्गालः (२) (सु०) बङ्गलोत्पत्तिप्रकारमाह-मध्यम इति । मध्यमं स्वरं स्थायिनमंशे कृत्वा तृतीयं चतुर्थं च स्वरमुच्चार्य मध्यमस्थितात् गान्धारात् निषादपर्यन्तं पञ्चस्वरानारुह्य तावत्पर्यन्तमवरोहणं कृत्वा स्थायिनि चोच्चार्य धैवतमारुह्य स्थाय्यवधित्वावरोहणे बङ्गालः ॥ -३४३, ३४४- ॥
इति बहालः (२)
Scanned by Gitarth Ganga Research Institute