________________
षष्ठो वाद्याध्यायः
ग्रहांशन्यासनियमो यद्वा शास्त्रस्य गोचरः || ३४१ ॥ गुम्फः स्वरान्तराणां तु लक्ष्यस्थो न विरुध्यते । सर्वत्र परिहारोऽयं लक्ष्ये लक्ष्माविरोधिनि ।। ३४२ ।। देशीरागेषु निर्णीतः शार्ङ्गदेवेन सूरिणा ।
३०१
;
(क०) प्रकारान्तरेणाप्यनर्थकत्वं परिहर्तुमाह – ग्रहांशेत्यादि । ग्रहांशन्यासनियमः ; ग्रहांशन्यासानामेव नियमः, शास्त्रस्य गोचरः विषयः । स्वरान्तराणां गुम्फ इति । स्वरान्तराणि ग्रहांशन्यासेभ्योऽतिरिक्तानि, अपन्यासादयोऽन्तरमार्गस्वराचोच्यन्ते । तेषां गुम्फस्तु लक्ष्यस्थः शास्त्रेण न विरुध्यत इति वा अर्धाङ्गीकारेण परिहारः ॥ ३४९ ॥
(क०) उक्तः परिहारोऽन्यत्रापि योजनीय इत्याह- सर्वत्रेति । देशीरागेष्विति । रागाङ्गभाषाङ्ग क्रियाङ्गोपाङ्गरागा देशीरागा इति प्रागुक्ताः । तेष्वयं विरोधपरिहारो निर्णीत इति । अनेन शुद्धसाधारितादिषु ग्रामरागादिषु मार्गरागेषु लक्षणस्यैव प्राधान्यात् तदनुसारेण लक्ष्यस्योन्नेयत्वात् विरोध एव न प्राप्तः, तत्र कुतस्तत्परिहार इत्यभिप्रायो वेदितव्यः । तथाहि मूर्च्छनालक्षणावसरे;
"
मध्यस्थानस्थषड्जेन मूर्च्छनारभ्यतेऽग्रिमा ।
अधस्तनैर्निषादाद्यैः षडन्या मूर्च्छनाः क्रमात् ॥ ' इति, (सं० २० १ ४ १२, १३)
(सु० ) प्रकारान्तरेण परिहारमाह — यद्वेति । स्वरान्तराणामपि लक्ष्यस्थो गुम्फः प्रहादित्वेन प्रयोग: शास्त्रस्य गोचर एव अनिषिद्धत्वात् । तस्मात् न विरुध्यत इति ॥ - ३४१, ३४२- ॥
Scanned by Gitarth Ganga Research Institute