________________
संगीतरत्नाकरः निःशङ्कोच समाधत्ते गान्धाराद्यप्रयोजकम् ।। ३३८ ।। किंतु स्थायिनमारभ्य ये स्युस्तुर्यादयः स्वराः। रागाभिव्यक्तिशक्ताः स्युनेनु शास्त्रेष्वनथिका ।। ३३९ ॥ षड्जायुक्तिः प्रसज्येत सत्यं तत्रोच्यते त्विदम् । मध्यमादिग्रहः शास्त्रे नियतस्तदपेक्षया ॥ ३४०॥ तुर्यादयो निषादाद्या भवन्तीत्युपपद्यते ।
(क०) तस्य समाधानं कर्तुमाह-निःशङ्कोऽत्रेति । गान्धाराद्यप्रयोजकमिति । मध्यमे ग्रहे गान्धारोऽधस्तनः, आदिशब्देन पञ्चमे ग्रहे मध्यमोऽधस्तन इति च सर्वमप्रयोजकम् । किंतु स्थायिनमारभ्येति । षड्जस्थानस्थितं मध्यमस्थानस्थितं वा स्वरमारभ्य । तुर्यादय इति । तत्तत्स्थानप्राधान्येन तत्तद्ग्रहानुसारेण च नीतोऽधस्तात् तुर्यादयः स्वराः रागाभिव्यक्तिशक्ताः स्युरित्युत्तरम् । यद्येवं शास्त्रेषु षड़जाधुक्तिरनर्थिकैवेति प्रसज्येतेति शङ्कते-नन्विति । षड्जाद्युक्तिरिति । षड्जादीनां ग्रहत्वाद्यक्तिरित्यर्थः । अर्धाङ्गीकारेण परिहरति-सत्यमिति । अत्र रक्तिलाभरूपदृष्टफलाय स्थानस्यैव प्रयोजकत्वात् तदर्थ षड्जाद्यक्तिरनर्थिकैवेत्यङ्गीकृतोऽशः । तथापि नानार्थका । अदृष्टफलापेक्षया शास्त्रे मध्यमादीनां नियतत्वादिति परिहारः । तदपेक्षया; शास्त्रनियतमध्यमादिग्रहा. पेक्षया निषादाद्यास्तुर्यादयो भवन्ति ॥ -३३८-३४०- ॥ ___ (सु०) परिहरति-नि:शङ्क इति । अत्र गान्धारनिषादादिप्रयोजकं न भवति । किंतु स्थाय्यपेक्षया अधस्तनत्वतुर्यादिरागाभिव्यक्तौ प्रयोजकमिति । पुनराक्षिपति-- नन्विति । शास्त्रे षड्जादीनामुक्तिरेवं सत्यनार्थकां प्राप्नोति । अर्धाङ्गीकारेण परिहरति-सत्यमिति । मध्यमादिग्रहोक्तिः शास्त्रे नियमादृष्टख्यापनार्थमित्युक्तम् । तदपेक्षया निषादादयः । एवं तुर्यादयोऽपीति नियमोपपत्तिः ॥ -३३८-३४०- ॥
Scanned by Gitarth Ganga Research Institute