________________
षष्ठो वाद्याध्यायः
२९९
एव निषादाद्याः समावेश्यन्ते । तदा सर्वेषामपि प्राथम्यं समानं भवति । अतः प्राथम्यसाम्येन हेतुना मध्यमादिपदं पञ्चमाद्युपलक्षणं भवतीति । तस्मादस्य वङ्गालस्य देशीरागत्वात् अत्र लक्षणे महत्वेन मध्यमस्य वचनं लक्ष्यप्रसिद्धपञ्चमोपलक्षणमिति लक्ष्यस्य प्राधान्यात् तद्विरोधिलक्षणं तदनुसारेण नेतव्यमिति मन्तव्यम् । पक्षान्तरेण विरोधं परिहर्तुमाह-यद्वेति । मध्यमादिग्रहे वङ्गालादीनां लक्ष्यप्रसिद्धपञ्चमादिग्रहत्वपरिहारेण शास्त्रोक्तमध्यमादिग्रहत्वे कृते हे नियमादृष्टकल्पना कार्या । अत्र रक्तिलाभ एव दृष्टं फलम् । तत्तु यथा तथा वा भवत्येव, स्थानस्यैकत्वादित्यनियमे प्रसक्ते शास्त्रेण नियमो विधीयते । तेन नियमेनादृष्टं फलं कल्प्यते । तस्मात् नियमानुष्ठानेऽभ्यधिकमदृष्टं फलं भवति ; यथा प्राङ्मुखत्वेन भोजने । तथा वङ्गाल - स्यास्य मध्यमग्रहेऽभ्यधिकमदृष्टं फलमिति भावः । इमं पक्षमास्थाय चोदयति - नन्विति । अस्मिन् वङ्गालरागे, मध्यमे स्वरे ग्रहे सति गान्धारस्तस्य मध्यमस्याधस्तनः स्यात् । पञ्चमे ग्रहे सति मध्यमः पञ्चमस्याधस्तनः स्यात् । एवं पक्षद्वयेऽपि । तुर्यादिव्यत्यय इति । मध्यमस्य ग्रहत्वे निषादस्तुर्यः ; पञ्चमस्य ग्रहत्वेऽपि षड्जस्तुर्यः ; आदिशब्देनार्धस्थिताष्टादयो गृह्यते । एवं सर्वेषां स्वराणां व्यत्यये सति रागसाम्यं कथं भवेदित्याक्षेपः ॥ ३३६, ३३७- ॥
i
तदेव व्याख्यानमाह - मध्यमादीति । अत्र मध्यमोऽंश: । प्राथम्यसाम्यत इति । अत्र मध्यमादिपदं पञ्चमादेरुपलक्षणम्, प्रथमप्रयुक्तत्वेन समानत्वात् । ततश्च स्वेच्छया यं कमपि स्वरं स्थायिनं कुर्यादित्यर्थः । अथवा यस्मिन् कस्मिश्चित् स्वरे स्वेच्छया स्थायिनि रागे कृते उत्पद्यत एव । परं तु मध्यमे स्थायिनि कृते पुण्यविशेषो भवतीति नियमादृष्टार्थे मध्यमादिग्रहोक्तिरिति । आक्षिपति -- नन्विति । ननु मध्यमेग्रहे क्रियमाणे अधस्तनो गान्धारः, पञ्चमे तु अधस्तनो मध्यमः । एवं मध्यमे ग्रहे तुर्यो निषादः, पञ्चमे ग्रहे षड्जः । एवं सर्वेषां स्वराणां व्यत्यये कथं रागसाम्यम् ? ॥ ३३६, ३३७- ॥
Scanned by Gitarth Ganga Research Institute