________________
२९८
संगीतरत्नाकरः ग्रहो हि मध्यमो रागस्यास्य शास्त्रे प्रकीर्तितः ॥ ३३४ ॥ यद्वा लक्ष्यप्रधानानि शास्त्राण्येतानि मन्वते । तस्माल्लक्ष्यविरुद्धं यत्तच्छास्त्रं नेयमन्यथा ।। ३३५ ॥ मध्यमादिपदं ज्ञेयं पञ्चमायुपलक्षणम् । प्राथम्यसाम्यतो यद्वा नियमादृष्टकल्पना ॥ ३३६ ॥ मध्यमादिग्रहे कार्या नन्वस्मिन्मध्यमे ग्रहे । अधस्तनः स्याद्गान्धारो मध्यमः पञ्चमे ग्रहे ॥ ३३७ ।।
तुर्यादिव्यत्ययेऽप्येवं रागसाम्यं कथं भवेत् । लक्षणपरिज्ञानाभावात् तत्कृतं लक्ष्यमप्रामाणिकमित्यर्थः । शास्त्रोक्तं लक्षणं दर्शयति-ग्रहो हीति । एवं लक्षणविरोधात् लक्ष्यस्यासमीचीनतामुक्त्वा विषयव्यवस्थया अत्र लक्ष्यस्यैव प्राधान्यं दर्शयति-~~यद्वा लक्ष्येति । एतानि शास्त्राणि देशीविषयाणीत्यर्थः । लक्ष्प्रधानानि ; लक्ष्यमेव प्रधानं येषां तानि । मन्वते, आचार्या इति शेषः । तस्मात् कारणात् लक्ष्यविरुद्धं यत्तु शास्त्रं वङ्गालरागादेः मध्यमग्रहत्वाद्यभिधायकं तच्छास्त्रम्-अन्यथानेयमिति । यथा लक्ष्यविरोधि न भवति तथा व्याख्येयमित्यर्थः ॥ -३३३-३३५ ॥ बङ्गाले रागे पञ्चममंशस्वरं कुर्वन्ति । तदनुचितम् । यतोऽस्य बङ्गालस्य शास्त्रे मध्यमो ग्रहस्वर उक्तः, ग्रहसहचारित्वादंशस्य तेनैव चांशेन भवितव्यमिति । यद्वेति । अथवा संगीतशास्त्राणि लक्ष्यप्रधानानि । ततो लक्ष्याविरोधेन व्याख्येयानि ॥ -३३३-३३५ ॥
(क०) तदन्यथानयनप्रकारमेव दर्शयति---मध्यमादिपदमिति । पञ्चमाधुपलक्षणत्वे हेतुमाह--प्राथम्यसाम्यत इति । अस्यायमर्थःमूर्च्छनास्वरूपनिरूणावसरे, 'षड्जस्थानस्थितैाथै रजन्याद्याः परे विदुः' (सं. र. १-४-१४) इति देशीप्रपञ्चमभिसंधायोक्तम् । तेन देश्यां षड्जस्थान
Scanned by Gitarth Ganga Research Institute