________________
षष्ठो वाद्याध्यायः
किनरीवादका: प्राय: स्थायिनं पञ्चमं स्वरम् ॥ ३३३ ॥ रागे कुर्वन्ति बङ्गाले तदज्ञानविजृम्भितम् ।
२९७
त्रितय इति । द्वितीयतृतीयचतुर्थेषु स्वस्थानेष्वित्यर्थः । द्वितीये द्वर्धस्वर - मारुह्य, द्वयर्थ इति स्थायिनश्चतुर्थस्वर उक्तः । तृतीये अर्धस्थितं स्वरमारुह्य द्वयर्ध्वद्विगुणमध्यस्योर्ध्वस्थित उक्तः । चतुर्थे द्विगुणं स्वरमारुह्य, द्विगुणो नाम स्थायिस्वरादष्टम उक्तः । तत्र आरुह्येत्यस्यायमर्थः – द्वयर्थादिषु स्थित्वा रागं प्रदर्शयेदिति । आद्यं स्वस्थानमातिष्ठेदिति प्रतिस्वस्थानं योज्यम् । सकलरागसाधारणं न्यायं दर्शयति - असंभव इत्यादि । पूर्वपूर्वस्वरस्यासंभवस्तु तस्य वर्ज्यत्वेन द्रष्टव्यः ॥ - ३२८-३३२-॥ इति मध्यमादि: (१)
(सु०) एवं वीणास्वरूपमुक्त्वा विदिक्प्रदर्शनाय केषांचिद्रागाणां वादनक्रमं वक्तुं प्रतिजानीते - प्रदर्शनार्थमिति । स्थायिनमिति । मन्द्रस्थानस्थं मध्यस्थानस्थं वा मध्यमस्वरं स्थायिनमास्थाय कृत्वा, तत्परान् पनिसान् पञ्चमनिषादषड्जान् आरुह्य आरोहेण गत्वा, षड्जत: षड्जसकाशात् स्थायिमध्यपर्यन्तान् स्वरान् पञ्च क्रमादवरोहेत् । यदि धैवतमाहन्यात् ताडयेत् तदा मध्यमादिसंज्ञकस्य रागस्य प्रथमं स्वस्थानम् । द्वयर्धमर्धस्थितं च स्वरमालप्तिलक्षणे लक्षितं स्वरं द्विगुणमारुह्य आद्यं स्वस्थानमातिष्ठेत् कुर्यात् । एवंविधं स्वस्थानत्रितयमन्यद्भवेत् । पूर्वपूर्वस्वराभावे परं परं स्वरं क्रमादारोहेत् । अयं मध्यमादिरागोक्त एव विधिः सर्वरागेषु बोद्धव्यः ॥ -३२८-३३२- ॥ इति मध्यामादि: ( २ )
(क० ) अथ बङ्गालाख्यदेशीरागभेदस्य लक्ष्यलक्षण विरोधमुद्भाव्य परिहरति - किंनरीवादका इत्यादि । तदज्ञानविजम्भितमिति । तेषां
(सु० ) किंनरीवादका इति । किंनर्या वादकाः सर्वेऽपि वैणिका:
38
Scanned by Gitarth Ganga Research Institute