________________
संगीतरत्नाकरः
शक्ता विवेक्तुमत्रापि स्वरस्थानानि तद्विदः । प्रदर्शनार्थी केषांचिद्रागाणां वादनक्रमम् ।। ३२८ ।। अस्यां किंनरवीणायां वक्ति श्रीकरणेश्वरः । स्थायिनं मध्यमं मन्द्रं मध्यं वा स्थायिनः परान् ॥ ३२९ ॥ आरु पनिसान्पञ्चावरोध क्रमतः स्वरान् । षड्जतः स्थायिपर्यन्ताद्यदाहन्यात्तु धैवतम् || ३३० || मध्यमादेः समाख्यातं स्वस्थानं प्रथमं तथा । द्वयर्धमर्धस्थितं तद्वदारुह्य द्विगुणं स्वरम् || ३३१ || आद्यं स्वस्थानमातिष्ठेत्स्वस्थानत्रितये परे । असंभवे पूर्वपूर्वस्वरस्य तु परं परम् ।। ३३२ ।। क्रमेण स्वरमारोहेत्सर्वरागेष्विति स्थितिः ।
इति मध्यमादिः
(क० ) अथ किंनरीवीणायां केषांचिदधुना प्रसिद्धानां रागाणां वादनक्रमं दर्शयितुमाह — प्रदर्शनार्थमित्यादिना । तत्रादौ मध्यमादेः स्वस्थानचतुष्टये स्वरसंनिवेशमाह - स्थायिनं मध्यममित्यादि । मन्द्रं मध्यमं मध्यं मध्यमं वा स्थायिनं कृत्वा, स्थायिनं रागस्थितं स्थानमित्यर्थः । तथैव स्थायिलक्षणं प्रागेवोक्तम् ; 'यत्रोपविश्यते रागः स्वरे स्थायी स कथ्यते' इति । स्थायिमन्द्रमध्यमात् मध्यममध्यमाद्वा, परान पनिसान, आरुह्येति; अनेनास्मिन् रागे धैवतस्य तत्संवादिन ऋषभस्य च वर्ज्यत्वमवगन्तव्यम् । क्रमतः षड्जतः स्थायिपर्यन्तान् पञ्चस्वरानवरुह्य, सनिधपमानि - त्यर्थः । अनेन अवरोहे कचिद्वर्जस्यापि स्वरस्योच्चारणं रागहानिकरत्वाभावेनाभ्युपगन्तव्यं भवति । यदाहन्यात्तु धैवतमिति । धैवतस्वरमाहतं गमकयुक्तं कुर्यादित्यर्थः । तदा मध्यमादेः प्रथमं स्वस्थानं भवति । परे स्वस्थान
२९६
Scanned by Gitarth Ganga Research Institute