________________
षष्ठो वाद्याध्यायः
द्वितीयं द्वियवोपेताङ्गुलद्वन्द्वमितं भवेत् । यवोनाभ्यामङ्गुलीभ्यां तृतीयं मीयते बुधैः ॥ ३२२ ॥
पादोनत्र्यङ्गुलं तुर्यमथ पञ्चममन्तरम् । यवार्धेनाङ्गुलद्वन्द्वं षष्ठं सार्धाष्टभिर्यवैः ॥ ३२३ ॥ सप्तमं तु यवनेनाङ्गुलद्वन्द्वेन मीयते । सार्धाङ्गुलं त्वष्टमं स्यान्नवमं त्वष्टभिर्यवैः || ३२४ || दशमैकादशे प्रोक्ते सपादाङ्गुलके पृथक । यवन्यनागुलमितं द्वादशं च त्रयोदशम् || ३२५ || अन्यत्तु लघुर्किन लक्ष्म पूर्ववदिष्यते । न बृहत्यधिकं मानं न हीनं त्रिंशदङ्गुलात् ॥ ३२६ ॥ आदर्तव्यं किंनरीणां रक्तिमाधुर्यवर्जनात् । एतयोरन्तराले तु यथेष्टं मानकल्पना || ३२७ || इति लघ्वी किंनरी
२९५
त्र्यङ्गुलम् ; पञ्चममर्धयवन्यूनं द्व्यङ्गुलम् ; षष्ठं सार्वैरष्टभिर्यवैर्युक्तम् । अयं तु लक्षणे विशेष उक्तः - सप्तमं तु यवोनेन अङ्गुलद्वयेन मीयते ; अष्टमं तु सार्धाङ्गुलेन ; नवमं त्वष्टभिर्यवै: ; दशमैकादशे पृथक् सपादाङ्गुलके प्रोक्ते ; द्वादशं त्रयोदशं च यवन्यू नाड्गुलमितं कार्यम् । अन्यत् सर्वे लक्ष्म लघुकिनर्या पूर्ववत् ज्ञातव्यम् । न बृहत्यधिकमिति ; किंनरीणां बृहत्यधिकं त्रिंशदङ्गुलदीर्घमाने हीनं नादर्तव्यम् । कुतः ? रक्तिमाधुर्ययोः वर्जनात्, लोपादित्यर्थः । एतयोः ; मध्यमलघ्व्योः किंनर्योः स्वेच्छया अन्तरालमानं कल्पयित्वा स्वरस्थानानि ज्ञातुं तद्विद: ; वैणिकाः समर्थाः ॥ - ३१७–३२७ ॥
इति लघ्वी किंनी
Scanned by Gitarth Ganga Research Institute