________________
२९४
संगीतरत्नाकरः
विशेषोऽयमिहान्यत्तु लक्ष्म स्याद् बृहतीगतम् । लवीदण्डगतं दैर्घ्यं स्यात्पञ्चत्रिंशदङ्गुलम् || ३१७ ॥ परिधिस्तु तृतीयांशाभ्यधिकाङ्गुलपञ्चकः । अगुलत्रयविस्तारं ककुभस्य शिरोभवेत् ॥ ३९८ ॥ पूर्ववत्काकुभो दण्डो वीणादण्डे निधीयते ।
परिशेषस्तथा सा स्याद्यथा दण्डान्ततन्त्रिका ॥ ३१९ ॥ आ ककुभ शिरोमध्याद्भवेत्यङ्गुलसंमिता । दण्डान्ते सारिकोत्सेधः स्यात्सार्धाङ्गुलसंमितः ॥ ३२० ॥ तदर्धे मेढकोपान्ते तत्राद्यं सारिकान्तरम् । प्रोक्तं यवेनाभ्यधिकैश्चतुर्भिर्मितमङ्गुलैः ॥ ३२१ ॥
मङ्गुलेन मेयं मातव्यम् ; तृतीयमन्तरमङ्गुलतृतीयांशाधिकैः त्रिभिरङ्गुलैर्मातव्यम्; चतुर्थमन्तरं त्र्यङ्गुलेन; पञ्चमं यवाधिकसार्धद्व्यङ्गुलम् ; षष्ठं यवद्वयेन हीनं द्वयङ्गुलम् ; सप्तमं यवसहितं सार्धाङ्गुलद्वयम् ; अष्टमं द्वयङ्गुलयवद्वयाधिकम् ; नवमं दशमं च यवोनाङ्गुलद्वयम् ; दशमादनन्तरमवयवत्रयसपादाङ्गुलप्रमाणम् । अयं विशेष उक्तः । इह अन्यत्तु लक्ष्म लक्षणं तु बृहतीगतं मध्यम किंनर्या ज्ञातव्यम् ॥ - ३०७-३१६-॥
इति मध्यमा किंनरी
(सु० ) लघ्वी किंनरीं लक्षयति-लध्वीति । लघ्व्याः किंनर्या दण्डं पञ्चत्रिंशदङ्गुलं दैर्घ्यं ज्ञातव्यम् । अङ्गुलत्रितयांशाधिकं पञ्चाङ्गुलं परिधिः, ककुभस्य शिरः त्र्यङ्गुलं स्यात् । वीणादण्डे ककुभदण्डस्य परिशेषः तथा कर्तव्यः यथा दण्डान्तरं ककुभशिरोमध्यं व्याप्य त्र्यङ्गुलं स्यात् । सारिकान्तरमाह—तत्रेति । प्रथमं सारिकान्तरं यवाधिकचतुरङ्गुलम् ; द्वितीयं यवद्वयाधिकं द्व्यङ्गुलम् ; तृतीयमेकयवोनं द्व ्यङ्गुलम् ; तुर्य चतुर्थाशन्यूनं
Scanned by Gitarth Ganga Research Institute