________________
षष्ठो वाद्याध्यायः
२९३ क्षिपेत्ककुभदण्डस्य वीणादण्डेऽङ्गुलत्रयम् । तावांश्च परिशेषेऽसौ यावतः परिशेषणे ॥ ३०९ ॥ दण्डान्तशीर्षमध्यान्तः सारिकावयवस्थितिः । वतीयभागरहिताङ्गुलनयमितो भवेत ॥ ३१०॥ दण्डान्ते सारिकोत्सेधः स्याद्यवोनाङ्गुलद्वयः । तदर्थो मेढकोपान्त्ये सारीणामन्तरं त्विह ॥ ३११ ।। प्रथमं प्रथितं प्राज्ञैः सार्धाङ्गुलचतुष्टयम् । द्वितीयमन्तरं मेयं सयवैरङ्गुलैत्रिभिः ।। ३१२ ॥ तृतीयं तु तृतीयांशाभ्यधिकैस्त्रिभिरङ्गुलैः । चतुर्थ व्यङ्गुलं प्रोक्तं पञ्चमं सारिकान्तरम् ।। ३१३ ॥ यवाधिकाभ्यां सार्धाभ्यामगुलाभ्यां मितं मतम् । षष्ठं यवद्वयन्यूनद्वयललं सप्तमं पुनः ॥ ३१४ ॥ सयावार्धागुलद्वन्द्वमष्टमं त्वङगुलद्वयम् । अङ्गुलं सयबद्वन्द्वं नवमं दशमं पुनः ।। ३१५ ।। यवोनमङ्गुलद्वन्द्वमन्तरत्रितयं पुनः । इतः परस्याः प्रत्येकं सपादाङ्गुलसंमितम् ॥ ३१६ ॥
इति मध्यमा किंनरी द्वयोनानि षडङ्गुलानि । काकुभं ककुभसंबन्धि शिरः सार्धागुलत्रयविस्तार देय स्यात् । क्षिपेदिति । वीणादण्डे ककुभदण्डमङ्गुलित्रयं क्षिपेत् । असौ ककुभदण्डस्तावत् परिशेषणीयः । यावत: परिशेषणे क्रियमाणे दण्डादिषु स्थितः तृतीयभागहीनाङ्गुलित्रयमितो भवति दण्डस्य अन्ते प्रान्ते वर्तमानाया: सारिकाया उत्सेध: यवोनमगुलद्वयं, मेढकोपान्ते वर्तमानायाः सारिकाया उत्सेधः तस्मादर्ध: । सारीणामन्तरप्रदेशप्रमाणमाह-सारीणामिति । प्रथममन्तरं सार्धमङ्गुलचतुष्टयं प्राज्ञैः प्रथितं विस्तारितम् ; द्वितीयमन्तरं यवाधिक
Scanned by Gitarth Ganga Research Institute