________________
२९२
संगीतरमाकरः मुक्ततन्त्रीभवं कृत्वा स्वरमाद्यं चतुर्दशम् । स्वराः परे स्युः सारीणां चतुर्दशभिरन्तरैः ॥ ३०३ ।। सप्तकद्वयमेवं स्यादेकतारस्वराधिकम् । यथास्वं स्वरदेशांशैः श्रुतिस्तस्या वितन्वते ।। ३०४ ।। द्विवास्ततोऽधिकाः सारीर्निबधीयात्परे त्विह । लक्षयन्त्यन्तराण्यासां स्वराविर्भावतो बुधाः ॥ ३०५ ।। श्रीशार्ङ्गदेवोपदेशात्तद्बोधः सुलभो नृणाम् । केचित्रयोदशैवात्र सारीनिदधते बुधाः ॥ ३०६ ॥ बृहती किंनरीत्येषा शार्ङ्गदेवेन कीर्तिता ।
इति बृहती किंनरी मध्यमायां दण्डदैर्घ्य त्रिचत्वारिंशदङ्गुलम् ॥ ३०७॥ परिधिदृश्यते तत्र द्वियवोनषडङ्गुलः ।
सार्धव्यङ्गुलविस्तारं पाग्दैर्ध्य काकुभं शिरः ।। ३०८ ॥ सारीणां विशेषणं संयोजनमिष्टकाचूर्णमिश्रेण मर्दनेन कार्यम् । अथवा वस्त्रमषीमिश्रेण कटयोर्विमुक्तया तन्त्र्या जातं प्रथमं स्वरं च कृत्वा सारीणां चतुर्दशभिरन्तरैः मध्यप्रदेशैरन्त्ये चतुर्दश स्वराः स्युः। एवं पञ्चदशभिः स्वरैः मन्द्रसप्तकं, मध्यसप्तकं स्यात् । तारसप्तकस्य एकस्वरोऽधिको भवति । स्वरप्रदेशानामंशैः यथास्वं, द्विश्रुतौ स्वरे द्वाभ्यामंशाभ्याम् , त्रिश्रुतौ त्रिभिरंशैः, चतुःश्रुतौ चतुर्भिरंशैः श्रुति: वितन्वते विस्तारयन्तीति । मतान्तरमाह-द्वित्रा इति । एषा बृहती किंनरी शार्ङ्गदेवेनोक्ता ॥ २७९-३०६-॥
इति बृहती किंनरी (सु०) मध्यमां किंनरी लक्षयति-मध्यमायामिति । मध्यमायां किंनों दण्डस्य त्रिचत्वारिंशदङ्गुलप्रमाणकं दैर्घ्य परिधिः वर्तुलप्रमाणं तु दण्डस्य यव
Scanned by Gitarth Ganga Research Institute