________________
२९१
षष्ठो वाद्याध्यायः यवाधिकव्यङ्गुलं तु ज्ञेयं पञ्चममन्तरम् । यवोनद्वयगुलं षष्ठं सयवद्वयमुलं पुनः ॥ २९६ ॥ अन्तरालं सप्तमं स्यात्सार्धद्वयङ्गुलमष्टमम् । नवमं तु यवा!नं सार्धाङ्गुलमितं मतम् ॥ २९७ ॥ दशमं द्वयङ्गुलं हीनं यवोनैकादशं ततः । द्वादशं तु तृतीयांशन्यूनं तस्मात्त्रयोदशम् ॥ २९८ ॥ सतृतीयांशाङ्गुलं स्यादगुलं तु चतुर्दशम् । द्वितीयान्तरतोऽधस्तान्यस्येत्तुम्बमधोमुखम् ।। २९९ ।। अन्यत्ककुभमूर्ध्वाधस्तुम्बकं संनिवेशयेत् । षट्त्रिंशदगुलं चक्रे परिधिस्त्वाद्यतुम्बके ।। ३०० ॥ किंचिन्यूनं त्वधस्तुम्बं परिधौ स्यादधस्तनम् । ईपदस्पष्टसरिका सारिकास्ता निवेशयेत् ॥ ३०१ ॥ मर्दनेनेष्टकाचूर्णमिश्रेण श्लेषणं दृढम् । सारीणामथवा वस्त्रमपी मिश्रेण संमितम् ॥ ३०२ ।।
मन्तरं यवाधिकपञ्चाङ्गुलम् ; द्वितीयमन्तरं तु चतुरङ्गुलम् ; तृतीयं चतुर्थ च द्वितीयवत् यवन्यूनचतुरङ्गलम् ; पञ्चमं तु यवाधिकत्र्यङ्गुलं ज्ञेयम् ; षष्ठमन्तरं यवोनत्र्यङ्गुलम् ; सप्तममन्तरालं पुनः सयवद्वयङ्गुलम् ; अष्टमं सार्धद्वयगुलम् ; नवमं तु अर्धयवोनं सार्धाङ्गुलम् ; दशमं द्वयगुलम् ; एकादशं तु यवहीनं द्वयङ्गुलम् ; द्वादशं तु तस्मादेकादशात् तृतीयांशादूनम् ; त्रयोदशमङ्गुलतृतीयांशहीनम् ; चतुर्दशमेकागुलप्रमाणकमिति । द्वितीयेति । द्वितीयान्तरस्य अधस्तात् अधोमुखं न्यस्येत् । अन्यद् द्वितीयं तु वक्त्रं ककुभस्य शिरसोर्ध्वस्थं स्थापयेत् । प्रथमतुम्बस्य वक्त्रे परिधि: वर्तुलप्रमाणं षट्त्रिंशदगुलानि । ततोऽधस्तने तुम्बे पूर्वतुम्बात् परिधौ किंचिन्न्यूनं स्यात् । ईषदिति । सारिका: किंचित् अस्पृष्टसारिकापृष्ठे तन्त्रिका वा निवेशयेत् ।
Scanned by Gitarth Ganga Research Institute