________________
२९०
संगीतरत्नाकर: स च स्यात्कर्तरीयुक्तो गले रन्ध्रान्वितोऽथवा । कर्तर्या गलरन्ध्र वा सारिका तां निवेशयेत् ॥ २८९ ॥ तद्रन्धे दण्डान्तरालं विदध्यात्सयवाङ्गुलम् । मेढकात्पुरतः शङ्कुः स्थिरः सार्धागुलान्तरे ॥ २९० ॥ तिर्यग्रन्ध्र निवेशोऽस्य चलशङ्कुवदिष्यते । चलशङ्कुभ्रामणादि ज्ञेयं पूर्वोक्तरीतितः ॥ २९१ ॥ गृध्रवक्षोस्थिजा यद्वा तत्पादास्थिसमुद्भवाः। कांस्यमय्योऽथवा लौह्यो नलिकाः सारिका मताः ॥ २९२ ।। सार्धाङ्गलास्ताः परिधौ दण्डपृष्ठे निवेशयेत् । यन्मेढकशिरोमध्यादुपक्रम्यान्तरं भवेत् ॥ २९३ ॥ सारीमस्तकमध्यानां तदिदानीं निरूप्यते । आद्यान्तरं तत्र यवाधिकं पञ्चगुलं मतम् ।। २९४ ।। द्वितीयमन्तरालं तु चतुरङ्गुलमुत्तरम् ।
तस्मात्तृतीयतुर्ये तु यवन्यूने मते सताम् ॥ २९५ ॥ प्रमाणकः मेढकः शङ्कुर्भवेत् । स च कर्तरीयुक्तो रन्ध्रयुक्तो वा कार्य: । तत्र कर्तर्या गलरन्ध्र वा सारिकां निवेशयेत् । तद्रन्ध्रेति । तस्य रन्ध्रस्य दण्डस्य च मध्यं यवाधिकैकाङ्गुलमितं कुर्यात् । मेढकात् पूर्वप्रदेशे स्थिरं भ्रमणयोग्य शकुं सार्धालान्तरे तिर्यग्रन्ध्रे चलशङ्कुप्रकाशने निवेशनीयः । अस्य शकुभ्रमणं तन्त्रीदाढर्यार्थम् ; शैथिल्यार्थ विपरीतभ्रमणं वा स्थिरतरार्थ च कीलकबन्धनं पूर्ववत् ज्ञेयम् | गृधेति । गृध्रस्य वक्षःस्थितं यदस्थि तदुद्भवाः नलिकाः कर्तव्याः । यद्वा ; अथवा गृध्रपादास्थिजाताः, अथवा कांस्यघटिता:, आहोस्वित् लोहमय्यः, ता: सार्धाङ्गुलप्रमाणा: परिधौ वर्तुलप्रमाणे दण्डस्य पृष्टे स्थापयेत् । मेढकस्य शिरोमध्यमारभ्य सारीशिरोमध्यानां यदन्तरं तत्प्रतिज्ञायाह-आद्यान्तरमिति । तत्रेति । तत्र तस्यां किंनर्याम् , आद्य
Scanned by Gitarth Ganga Research Institute