________________
२८९
षष्ठो वाद्याध्यायः दण्डांशः परिशेषोऽत्र तावान्यावति शेषिते । वीणादण्डान्तककुभशिरोमध्यान्तरे स्थितः ।। २८३ ॥ तन्त्रीभागस्तृतीयांशाधिकञ्यमुलको भवेत् । मध्ये कूर्मोन्नतां लौहीं पत्रिकां शिरसि क्षिपेत् ।। २८४ ।। परितोऽर्धागुलन्यूना शिरसोऽसौ प्रकीर्तिता । वीणाशीर्षादधस्ताच्च सार्धयङ्गुलतः स्थितम् ॥ २८५ ॥ ऊर्ध्वाधो दैर्यभारन्ध्र विस्तारेऽर्धाङ्गुलायतम् । तिर्यग्दैर्ध्या तावदन्यद्रन्धं चोभयतोमुखम् ॥ २८६ ।। तिर्यग्रन्ध्रे चलं शङ्कुमूर्ध्वरन्ध्रनिविष्टया । लौह्या सारिकया युक्तं न्यसेत्यान्तान्तरं पुनः ।। २८७ ॥ सारिकायाः शिरोमूले बनीयात्काकुभे सुधीः ।
तन्त्रीरन्धात्पुरः स्वाइघिद्वयङ्गुले मेढको भवेत् ॥ २८८ ।। उच्छाये उत्सेधे द्वयङ्गुलम् | ककुभस्य दण्डं वीणादण्डमध्ये निक्षिपेत् । दण्डांश: दण्डस्य अशोऽवयवः, तावान् शेष्यः अवशेषणीयः, यावति शेषे अगुलकः तृतीयांशाधिक: तन्त्र्या भागोऽवयवः वीणादण्डस्य अन्ते ककुभस्य शिरो मध्यान्तेषु स्थिरो भवेत् । मध्य इति । मध्ये कूर्मवत् उन्नतां लौहीं लोहघटितां पत्रिकां ककुभस्य मध्ये शिरसि शिरोमध्ये क्षिपेत् स्थापयेत् । असौ पत्रिका शिरसः परितः सर्वप्रदेशेभ्य अर्धाङ्गुलन्यूना युक्ता । वीणेति । वीणायाः शीर्षप्रदेशः, तस्मादधस्तात् घगुले प्रदेशे स्थितमूर्ध्वमधश्च दीर्घरन्धं कुर्यात् । तद्विस्तारः अर्धाङ्गुलप्रमाणम् , तिर्यक् दैयेऽपि तावत् अर्धाङ्गुलायामम् , एवं द्वितीयं रन्ध्रमुभयतोमुखं कुर्यात् । तत्र तिर्यग्रन्ध्रे चलं भ्रमणयोग्यं शकुम् ऊर्ध्वरन्ध्रस्थितया लोहकृतया सारिकया नलिकया युक्तं न्यसेत् क्षिपेत् । सारिकायाः प्रान्तान्तरं पुनः काकुभे ककुभसंबन्धिनि शिरोमूले बनीयात् । तन्त्रीति । तन्त्रीरन्ध्रात् पुरः पूर्वप्रदेशे सपादद्वयगुल
37
Scanned by Gitarth Ganga Research Institute