________________
२८८
संगीतरत्नाकरः आलापिनीवदस्यां च स्थाप्यं तुम्बं तृतीयकम् । अन्यल्लघ्वीगतं लक्ष्म बृहती किंनरीं श्रयेत् ।। २७८ ॥
इति द्विविधकिंनरीलक्षणम्
किंनरीत्रितयं तत्र देशीसंसिद्धमन्यथा । बृहती मध्यमा लघ्वीत्यथासां लक्ष्म कथ्यते ।। २७९ ॥ तिर्यग्यवोदरैः षड्भिर्निस्तुपैः स्यादिहाङ्गुलम् । बृहतीदण्डमानं स्यादैर्ये पञ्चाशदङ्गुलम् ॥ २८० ॥ षडङ्गुलोऽत्र परिधिर्दण्डे दार्घ्य तु काकुभे । षडगुलं शिरस्त्वस्य दैर्घ्यविस्तारयोर्भवेत् ॥ २८१ ।। चतुरङ्गुलसंमानं द्वयङ्गुलं तु तदुच्छ्रये ।
निक्षिपेत्काकुभं दण्डं वीणादण्डोत्तरे तथा ॥ २८२ ॥ अङ्गुलेनाधिका गोस्नायुरचिता तन्त्री यस्यां, तुम्बत्रययुता तृतीयं तुम्बं यस्याम् आलापिन्यां यथा स्थाप्यते तथैवास्यां स्थापनीयम् | अन्यत् लक्षणं बृहत्किनरी लघुकिंनरीस्थमाश्रयति ॥ -२६३-२७८ ॥
इति द्विविधकिंनरीलक्षणम्
___(सु०) अथ देशीप्रसिद्ध किंनरीत्रितयं लक्षयति-किंनरीति । तिस्रः किंनर्यो देशीप्रसिद्धा: । अन्यथा पूर्वोक्तकिंनरीद्वयात् विलक्षणा, बृहती मध्यमा लध्वी चेति । तासां लक्षणानि कथयितुं परिभाषते-तिर्यगिति । यवतुषविहीनः तिर्यक् स्थितैः षड्भिर्यवोदरैः, एकमगुलं किंनरीलक्षणप्रकरणे ज्ञातव्यम् । बृहती किंनरी लक्षयति-बृहतीति । बृहत्याः किंनर्याः दण्डस्य दीर्घमानं दीर्घत्वं पञ्चदशाङ्गुलानि । परिधिः वर्तुलमानं षडङ्गुलानि दण्डस्य ज्ञातव्यम् । ककुभे बन्धनीदैर्घ्य षडङ्गुलमानम् । अस्य ककुभस्य शिरः दैर्घ्य विस्तारे वा आयामे चतुरगुलं कार्यम् ।
Scanned by Gitarth Ganga Research Institute