________________
षष्ठो वाद्याध्यायः
२८७
सारिकामस्तकन्यस्तामानीतां मोढकोपरि । लग्नां द्वितीयप्रान्तेन वेष्टयेच्चलकीलके ॥ २७१ ।। शकुं तं भ्रामयेत्तावद्यावत्तन्त्री दृढा भवेत् । भ्रामणं वैपरीत्येन तन्त्रीशैथिल्यकारणम् ॥ २७२ ॥ तन्त्रीदैर्येऽथ दााय चलशङ्कोर्गलस्थिते । छिद्रे न्यस्याथ संकीलं स्थिरशङ्कौ निवेशयेत् ।। २७३ ।। लघ्वी सा किंनरी प्रोक्ता शाङ्गदेवेन मूरिणा । अस्यां स्थायिनमारभ्य गणयेत्सप्तकद्वयम् ।। २७४ ।। सारीककुभयोर्मध्ये तर्जन्यायगुलित्रयात् । वादयेत्किनरीवीणातन्त्री दक्षिणपाणिना ।। २७५ ॥ वामस्य तिसभिस्ताभिरङ्गुलीभिस्तु तन्त्रिकाम् । तत्तत्सारीप्रदेशस्थां स्वरव्यक्त्यै निपीडयेत् ।। २७६ ॥ वितस्त्यभ्यधिका दैर्ये परिणाहऽङ्गुलाधिका।
लव्याः स्याद् बृहती स्नायुमया तन्त्रीवितुम्बिका ।। २७७ ।। गजकेशवत् लोहमयीं तन्त्री दृढं ककुभे निबध्य सारिकामूर्धनि निबद्धमेढकोपरि आनीतां द्वितीयप्रान्तेन चलशकुं वेष्टयेत् । तं चलशकुं तावद्भ्रामयेत , यावद् दृढा तन्त्री भवेत् । तस्य शङ्कोः वैपरीत्येन भ्रमणं तन्त्र्या: शैथिल्यमापादयति । तन्त्री दीर्घ सति, अथ दाढाय दृढस्थितये चलशङ्कोः कण्ठरन्ध्रे कंचन लोहमयं कीलं स्थिरशङ्कौ स्थापयेत् । इयं लध्वी किंनरीति । अस्यामिति । अस्यां किंनों स्थायिनमंशस्वरमारभ्य सप्तकद्वयं गणयेत् । किंनरीवीणाया तन्त्री दक्षिणेन पाणिना सारीककुभयोर्मध्ये तर्जन्यादिभिदियेदिति संबन्ध: । वामहस्तस्य ताभि: तर्जन्यादिभिः तिसृभिः अगुलीभिः सारीस्थस्वरव्यक्तये तन्त्री निपीडयेत् । बृहती किंनरी लक्षयति–वितस्तीति । लघुकिंनर्याः सकाशात् बृहती किंनरी दीर्घत्वे वितस्त्या अधिकपरिणाह आयामे
Scanned by Gitarth Ganga Research Institute