________________
२८६
संगीतरत्नाकरः
तस्य स्थाने भवेदाद्या सारिकान्योर्ध्वमङ्गलात् । स्थापयेदन्तरे किंचित्किचित्पूर्वाधिक परा ।। २६४ ॥ द्व्यङ्गुलावध्यष्टमीं तु पूर्वस्यास्त्रयङ्गुलान्तरे । स्थापयित्वा पराः पट् च पूर्वपूर्वाधिकान्तरे ।। १६५ ।। चतुरङ्गुलपर्यन्तं सारिकाः संनिवेशयेत् । तुम्वं दण्डस्थककुभस्याधः संधौ निवेशयेत् || २६६ || तृतीयतुर्यसार्योस्तु मध्येऽधस्ताद् द्वितीयकम् । पूर्वस्मादपरं तुम्बं विस्तारेऽभ्यधिकं मनाक् ।। २६७ ॥ दण्डायाद् द्व्यङ्गुलेऽधस्ताद्वन्धं कृत्वाथ निक्षिपेत् । चलशकुं गले रन्धं दधमानमतोऽगुलात् ।। २६८ ॥ अधस्तादङ्गुलोत्सेधं मेढकं बाणपुङ्खवत् । कृत्वा ततोऽग्रतः किंचित्स्थिरशकुं निवेशयेत् ॥ २६९ ॥ ततो लोहमयीं लक्ष्णां वर्तुलां च समां दृढाम् । गजकेशोपमां तन्वीं निवध्य ककुभे दृढम् || २७० ||
द्व्यङ्गुलायामा स्थाप्या । परा अष्टमी सारिकां तु सप्तम्याः सकाशात् त्र्यङ्गुला अन्तरप्रदेशे स्थाप्या । अन्यास्तु षट्सारिका: पूर्वपूर्वापेक्षया किंचिदधिका, अन्तरे चतुरङ्गुलाः स्थाप्याः । तुम्बमिति । दण्डस्थककुभस्य अध: संधौ तुम्बं निवेशयेत् । ततो द्वितीयमपि तुम्बं पूर्वतुम्बात् किंचिदधिकं विस्तारं तृतीयचतुर्थसारिकयोर्मध्यस्थाने स्थापयेत् । दण्डायादिति । दण्डस्य अग्रात् द्व्यङ्गुलमित्यधस्तात् प्रदेशे रन्ध्रं कृत्वा चलं भ्रमणयोग्यं शकुं कीलकं निक्षिपेत् । गले कण्ठप्रदेशे रन्ध्रं दधमानं दधतमिति शङ्कुविशेषणम् । “दध धारणे” (भ्वादि:, ८) इति भौवादिकस्य धातो रूपम्। अङ्गुलोत्सेधं ; शङ्कोर गुलादधस्तात् अङ्गुलोर्ध्वं शरपुङ्खवत् द्विशृङ्गमेढकं शकुं कृत्वा, तत: किंचिदप्रतः स्थिरं भ्रमणयोग्यं शकुं निवेशयेत् । ततः गजकेशोपमाम्,
Scanned by Gitarth Ganga Research Institute