________________
२८५
षष्ठो वाद्याध्यायः तत्र लघ्वीगतं लक्ष्म सांपतं प्रतिपाद्यते । स्याद्वितस्तित्रयं देध्ये मानं पञ्चाङ्गुलाधिकम् ॥ २५८ ।। पञ्चाङ्गुलः परीणाहो वेणुदण्डस्य यत्र च । गर्भेऽस्य व्यापकं रन्धं ककुभः शाकदारुजः ।। २५९ ।। सार्धद्वयङगुलविस्तारो दैये पञ्चाङ्गुलश्च सः । तस्मादर्धाङ्गुलन्यूना दैर्घ्यविस्तारयोर्भवेत् ।। २६० ।। मध्ये कूर्मोन्नता लोही पत्रिका ककुभस्थिता । गृध्रवक्षोऽस्थिनलिका कनिष्ठागुलिसंमिता ॥ २६१ ॥ लौही कांस्यमयी यद्वा कीर्तिता सारिकाख्यया । श्लिष्टा वस्त्रमपीमिश्रमर्दनेन चतुर्दश ॥ २६२ ॥ चतुर्दश स्वरस्थाने दण्डपृष्ठे निवेशयेत् ।
सप्तकस्य द्वितीयस्य यो निपादो भवेदधः ॥ २६३ ॥ द्विप्रकारा-लध्वी बृहती चेति । तत्र लळ्या लक्षणं प्रतिज्ञाय कथयतिस्यादिति । वेणुदण्डस्य दीर्घत्वे मानं पञ्चाङ्गुलाधिकवितस्तित्रयं परिमाणम् | परिणाहो वर्तुलप्रमाणं पञ्चाङ्गुलम् । अस्य ; वेणुदण्डस्य, गर्भे मध्ये व्यापकं वेत्ररन्धं शाककाष्ठजः सार्धाङ्गुलद्वयमायामः, पञ्चाङ्गुलः ककुभः, तस्मात् ककुभात् दैर्घ्य आयामे च अर्धाङ्गुलन्यूना मध्ये कूर्मवदुन्नता च लोहमयी पत्रिका ककुभे वर्तमाना कार्या | गृध्रेति । गृध्रनामान: पक्षिणः, तेषाम् अस्थिनलिका, सच्छिद्रा अस्थिखण्डा कनिष्ठाङ्गुलिप्रमाणा लोहमयी कांस्यमयी वा सच्छिद्रा नलिकाश्च चतुर्दशसंख्याकाः, दग्धवस्त्रमषीमिश्रेण सिक्थकेन मर्दनेन समुत्थेन श्लिष्टा दण्डस्य पृष्ठे तललग्ना: चतुर्दशस्वरस्थाने स्थापयेत् ॥ -२५७-२६२- ।।
(मु०) स्थापनाप्रमाणमाह-सप्तकस्येति । द्वितीयस्य सप्तकस्य अध:स्थाने यो निषादः, तस्य स्थाने प्रथमा सारिका किंचिदगुलाधिका, अन्तरे
Scanned by Gitarth Ganga Research Institute