________________
२८४
संगीतरत्नाकरः बिन्दुइस्तेन वा मन्द्रे मध्ये तारे च वादयेत् । त्रयस्तु दक्षिणात्याणेश्चत्वारो वामतः स्वराः ॥ २५२ ॥ इत्युक्तं कैश्चिदाचार्यैरपरे त्वन्यथा जगुः ।। मध्यमो मुक्तया तन्त्र्या तर्जन्याद्यगुलीत्रयात् ।। २५३ ।। वामस्यानामिकावास्वयः स्युः पञ्चमादयः । मुक्ततन्त्र्याथ षड्जः स्थादृषभस्तर्जनीभवः ॥ २५४ ।। गान्धारो मध्यमागुल्या दक्षिणेनाथ वादनम् । आरोहेणावरोहेण सप्तकद्वितये भवेत् ॥ २५५ ॥ एभिः स्वरैविरचितं विचित्रं रागमालपेत् । गायेद्गीतं निबद्धं च प्रवीणो वीणयानया ॥ २५६ ॥ इदमालापिनीलक्ष्म श्रीनिःशङ्केन कीर्तितम् ।
इत्यालापिनीलक्षणम किंनरी द्विविधा लम्बी बृहती चेति कीर्तिता ।। २५७ ।। त्रयः स्युरिति । दक्षिणपाणिना वादनात् त्रयः स्वरा:, वामपाणिना चत्वारः स्वरा इति केचित् आचार्या आहुः । अपरे तु अन्यथा आहुः । मुक्तया अप्रतिबद्धया तन्त्र्या मध्यम: मध्यमस्वरः वामहस्तस्य अनामिकया विना तर्जन्यादिभि: तिसृभिरङ्गुलीभि: क्रमात् पच्चमादयः, पञ्चमधैवतनिघादाः । अथ विमुक्तया तन्त्र्या षड्ज: ; ततो दक्षिणहस्ततर्जन्या ऋषभः ; मध्यमाङ्गुल्या गान्धार इति । अथ स्वरवादनप्रकारपरिज्ञानानन्तरम् , सप्तकद्वितये आरोहावरोहाभ्यां कार्यम् । एभिः; सप्तकद्वयस्थैः स्वरै रागालापं कुर्यात् । तस्मिन् निबद्धं गीतं चानया आलापिन्या वीणया गायेत् ॥ -२५०-२५६- ॥
इत्यालापिनीलक्षणम् (सु०) किंनरी लक्षयितुं विभजते-किंनरीति । किंनरी द्विविधा,
Scanned by Gitarth Ganga Research Institute