SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ षष्ठो वाद्याध्यायः दशमुष्टिमितं दण्डमलाहुः खादिरं परे ।। २४८ ॥ पट्टसूत्रमयीं तन्वीं यद्वा कार्पासमूत्रजाम् । रक्तचन्दनजान्सर्वान् वीणादण्डान्परे जगुः ॥ २४९ ॥ दशमुष्टयधिकं मानं कचिल्लक्ष्येषु दृश्यते । तुम्बं वक्षसि निक्षिप्य वामाङ्गुष्ठेन तस्य च ॥ २५० ॥ मूलमुत्पीड्य धृत्वा तामय मध्यमया सुधीः । दक्षिणस्यानामया वा वादयेद्विन्धातुवत् ॥ २५९ ॥ २८३ (सु०) आलापिनीलक्षणमाह - आलापिनीगतमिति । वेणो नवमुष्टिपरिमितो दीर्घत्वे दण्डः स्यात् । अङ्गुलद्वयं परिधिः वर्तुलप्रमाणं यस्य ; प्राग्वत् ; एकतन्त्रीदण्डवत् ; ग्रन्थ्यादिवर्जितः ; ग्रन्थिभेदादिवर्जितः; श्लक्ष्ण: ; मसृण: ; समः; आदिमध्यावसानेषु समप्रमाण: ; सुवृत्तः ; वर्तुलश्च ; अङ्गुलद्वयविस्तार:, तथा अर्धाङ्गुलायामः तदर्धे पिण्डसंयुक्तम्, उन्मुखम् ; ऊर्ध्वमुखं यस्य, पत्रिका उज्झितं हीनम्, एकेन दण्डेन युक्ता, अधोभागे ; अधः प्रदेशे तु चतुरङ्गुलदैर्येण, बहिः प्रदेशे मध्येन चोन्नतेन शङ्कुना विराजितं ककुभं दधत् दण्डः स्यादिति संबन्ध: । तस्य दण्डस्य अप्रात् अधस्तात् तुम्बं दधत्, चतुर्थांशे नवमुद्विये द्वादशाङ्गुलसंमितं चतुरङ्गुलमुखं च नागदन्तनाभियुक्तं निबध्यते । अत्रेति । अत्र ; आलापिन्याम्, मेषस्य अजस्य आन्त्रेण तन्त्री कार्या । नारिकेलोत्थं कर्परं, दोरकः, सारिकाच, एतानि त्रीणि यत्र निबध्यन्ते सा आलापिनी ज्ञातव्या । मतान्तरमाह - दशति । अत्र, परे; आचार्याः दशमुष्टिमितं खादिरं दण्डमाहुः । यद्वा पट्टसूत्रमयी कार्पास सूत्रमयी वा तन्त्री कार्या । परं ; आचार्याः रक्तचन्दनजान् सर्वान् वीणादण्डान् जगुः ॥ - २४१ - २४९- ॥ (सु०) आलापिनीवादनप्रकारमाह —– तुम्बमिति । वक्षसि तुम्बं निक्षिप्य स्थापयित्वा वामाङ्गुष्टेन तस्य तुम्बस्य मूलं निष्पीड्य मध्यमया अङ्गुल्या तामालापिनीं त्वा, दक्षिणहस्तस्य अनामिकया पूर्वोक्तबिन्दुधातुवत् वादयेत् । Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy