________________
२८२
संगीतरत्नाकरः आलापिनीगतं लक्ष्म वक्ष्ये लक्ष्यविदां मतम् ॥ २४१ ॥ नवमुष्टिमितो दैर्ये वैणवः सुपिरान्तरः । अङ्गुलद्वन्द्वपरिधिः प्राग्वद् ग्रन्थ्यादिवर्जितः ॥ २४२ ॥ श्लक्ष्णः समः सुवृत्तश्च दण्डः स्यात्ककुभं दधत् । अगुलद्वयविस्तारमगुलार्धायतं तथा ॥ २४३ ।। तदर्धे पिण्डसंयुक्तमुन्मुखं पत्रिकोज्झितम् । एकदण्डमधोभागे शङ्कुना तु विराजितम् ।। २४४ ॥ चतुरङ्गुलदैर्येण बहिर्मध्योन्नतेन च । तस्य तुम्बं परीणाहे द्वादशाङ्गुलसंमितम् ।। १४५ ।। चतुरगुलवक्त्रं च दन्तनाभिसमन्वितम् । अग्रादधस्तात्पादोने मुष्टियुग्मे निबध्यते ।। २४६ ॥ अत्र मेषान्त्रतन्त्री स्यात्सूक्ष्मा श्लक्ष्णा समा दृढा । कर्परं नारिकेलोत्थं दोरकः सारिकास्तथा ॥ २४७ ।। त्रीण्येतानि निबध्यन्ते यत्र सालापिनी मता ।
(सु०) आसारितत्रयं लक्षयति—आसारितेति । त्रिविधमासारितं तालाध्याये उक्तमपि यथाक्षरं द्विसंख्यातं त्रिसंख्यातमिति, तस्य प्रत्येकमावृत्तित्रयं वर्णालंकारशोभना भेदं पूर्वोक्तचित्रादिवृत्तित्रयेण तत्त्वाद्यैश्च वाद्यैः, करणधातुना च इह वीणाविधौ बुधैः विचित्रं कार्यम् ॥ २३९, २४०- ॥
इत्यासारितत्रयम्
इति नकुलादिपञ्चवीणालक्षणम (क०) आलापिनीलक्षणमाह-आलापिनीगतमिति । आलापिन्या: किंनरीभेदानां लघ्वादीनां च लक्षणानि विस्पष्टार्थत्वात् ग्रन्थत एवावगन्तव्यानि ॥ २४१-३२७- ॥
Scanned by Gitarth Ganga Research Institute