________________
२८१
षष्ठो वाद्याध्यायः आहुरेके मानहीनमपि त्वाह विशाखिलः । ध्रुवायां तूभयस्तालः परैस्त्वनियमात्मकः ॥ २३८ ।।
इति लीलाकृतम्
आसारितत्रयं पूर्व तालाध्याये निरूपितम् । यथाक्षरं द्विसंख्यातं त्रिसंख्यातमिति विधा ॥ २३९॥ प्रत्येकं तस्य चावृत्तिर्वर्णालंकारशोभना । वृत्तित्रयेण वाद्यैश्च तत्वायेः करणेन च ॥ २४० ॥ धातुना चित्रिता कार्या बुधैःणाविधाविह ।
इत्यासारितत्रयम् इति नकुलादिपञ्चवीणालक्षम
मित्यादि । ध्रुवायां तूभयस्ताल इति । अपरान्तकासारितात्मिकायां लीलाकृतध्रुवायामुभयस्ताल: चतुरश्रः, त्र्यश्रश्च ॥ २३२-२३८ ।।
(सु०) वाद्ये मानविषये मतान्तरमाह-वीणावाद्यमिति । ततवाद्यं मानेन तालेन च युक्तं कार्यम् । एके, केचित् द्वाभ्यां वर्जितमेतदाहुः । विशाखिलस्तु मानहीनं तालहीनं चाह । एतस्य ध्रुवायां यत्किचन तालद्वयं स्वेच्छया उपनिबन्धनीयम् ॥ २३२-२३८ ॥
इति लीलाकृतम
(क०) आसारितत्रयं लक्षयति-आसारितत्रयमित्यादि । तस्य ; आसारितत्रयस्य, वर्णालंकारशोभनात्तिः, वृत्तित्रयेण ; चित्रावृत्तिदक्षिणानां त्रयेण, तत्वाद्यैः ; तत्त्वौघानुगतैः, करणेन धातुना ; करणघातुना च प्रत्येकमष्टभिः कर्तव्येत्यर्थः ॥ २३९-२४०- ॥
Scanned by Gitarth Ganga Research Institute