________________
२८०
संगीतरत्नाकरः
अन्ये तु माषघातादिसप्ताङ्गमपरान्तकम् । ब्रुवतेऽभिमृतं तत्तु प्रदानादिनवाङ्गकम् ।। २३५ ।। पाहुः परिमृतं मृग्यं तालाध्याये लयान्तरम् । गीतकत्रयसंयोगादेवं लीलाकृतं त्रिधा ॥ २३६ ॥ प्रयोगौ द्वौ पदैश्वान्यः सार्थकैश्च निरर्थकैः।
वीणावाद्यं मानतालयुक्तं शम्यादिवर्जितम् ॥ २३७ ॥ भिसृतमित्युच्यते । मध्यमग्रामोत्पन्ने जात्यंशे यदुपनिबद्धमासारित परिसृतमित्युच्यते ॥ २३२-२३४ ॥
(क०) तयोरेव मतान्तरेण स्वरूपमाह-अन्ये वित्यादि । माषघातादीनि सप्ताङ्गानि यस्येति तत्तथोक्तम् । प्रदानादीनि नवाजकानि यस्येति तत्तथोक्तम् । तदित्यपरान्तकं परामृश्यते । लयान्तरं तालाध्याये मृग्यमिति । तत्र हि · तल्लयान्तरं मार्गलयाभ्यां द्विगुणं ततः' इति कनिष्ठासारितद्वैगुण्येनोक्त आसारितभेदो द्रष्टव्यः । गीतकत्रयसंयोगादिति । अभिसृतपरिसृतलयान्तराख्यस्य गीतकत्रयस्य प्रयोगात् । अस्य लीलाकृतस्य द्वौ प्रयोगौ अभिसृतपरिसृताख्यौ, सार्थकैः; वाचकलक्षकव्यञ्जकैः पदैश्च भवतः । अन्यः तृतीयः प्रयोगो लयान्तराख्यो निरर्थकैः तेनतेनादिभिरनुकरणशब्दैर्वा भवति ॥ २३५, २३६- ॥
(सु०) मतान्तरमाह-अन्ये त्विति । पूर्वोक्तमाषघातादिसप्ताङ्गे उक्तमपरान्तकमभिसृतं, प्रदानादिनवागसंयुक्तमपरान्कं परिसृतमिति च केचिदाहुः । लयान्तरलक्षणं तालाध्याये उक्तम् । एवं गीतकत्रयसंयोगेन लीलाकृतं त्रिधा त्रिप्रकारं भवति । तत्र सार्थकैः निरर्थकैश्च पदैः प्रयोगद्वयम् ।। २३५, २३६- ॥
(क०) अत्र वाद्ये तालमानयोगविषये मतभेदान् दर्शयति-वीणावाद्य
Scanned by Gitarth Ganga Research Institute