________________
षष्ठो वाद्याध्यायः
२७९
प्रयोगोऽभिमृतस्य स्यात्तथा परिमृतस्य चेत् । तथा लयान्तरगतो वाधतालकलाविधौ ॥ २३२ ॥ माधुर्य सौकुमार्य च तदा लीलाकृतं भवेत् । षड्जग्रामस्थजात्यंशे यद्गीतं वार्तिके पथि ॥ २३३ ॥ आसारितं तदेवोक्तं धीरैरभिसृताहयम् । जात्यंशे मध्यमग्रामसंस्थे परिमृतं त्विदम् ।। २३४ ॥
(सु०) मार्गासारितं लक्षयति-विस्तारेति । विस्ताराविद्धकरणानां मिश्रितभेदप्रयोगात् तथा पूर्वोक्तकलतलप्रयोगात् मार्गासारितं भवति । अन्ये; आचार्याः, कलतलाख्यभेदमिश्रितधातुप्रयोगे मार्गासारितस्य लक्षणमित्याचक्षते। तमाह-गाश्चत्वार इति । एकमिति । एक खण्डं ध्रुवायाः चच्चत्पुटताले गेयम्। अन्यत् खण्डद्वयं तु उत्तरे पितापुत्रके तालाध्यायोक्तकनिष्ठासारिते यः पातकलाविधिः सोऽत्र कर्तव्यः ॥ २२८-२३१॥
इति मार्गासारितम् (क०) अथ लीलाकृतं नाम निर्गीतवाद्यं लक्षयति-प्रयोगोऽभिमृतस्येत्यादि । अभिमृतस्य परिसृतस्य च प्रयोगः तथा लयान्तरगतेति । प्रयोगश्च वाद्यतालकलाविधौ स्यात् । माधुर्य सौकुमार्य च यतः स्यात् तत्ततो लीलाकृतमित्यर्थः । अभिमृतस्य स्वरूपमाह-षड्जयामेत्यादि । परिसृतस्य स्वरूपमाह-जात्यंश इत्यादि ॥ २३२-२३४ ॥
(सु०) लीलाकृतं लक्षयति-प्रयोग इति । वक्ष्यमाणलक्षणस्य अभिसृतस्य परिसृतस्य च प्रयोग: पूर्वोक्तलयान्तरस्येव कलाविधौ प्रयोग: कार्यः । तत्र माधुर्य सौकुमार्य च यदि विद्येत तदा लीलाकृतम् । अभिसृतपरिसृते लक्षयति-षड्जग्रामेति । षड्जग्रामस्थाः षड्जग्रामोत्पन्ना जातयः, तासामंशे रागे प्रामे च यदुपनिबद्धं गीतं वार्तिके मार्गे पूर्वोक्तमासारितं तद्वद
Scanned by Gitarth Ganga Research Institute