________________
२७८
संगीतरत्नाकरः विस्ताराविद्धकरणभेदमिश्रप्रयोगतः । यथा कलतलाख्याभ्यां मार्गासारितकं भवेत् ॥ २२८ ।। अन्ये कलतलोन्मिश्रकरणं लक्ष्म चक्ष्महे । गाश्चत्वारो लघून्यष्टौ गौ द्वावष्टौ लघून्यथ ।। २२९ ॥ गो ल इत्याद्यखण्डं स्यादेवं खण्डद्वयं परम् । यस्यामसौ ध्रुवा ज्ञेया मार्गासारितसंश्रया ॥ २३० ॥ एकं चच्चत्पुटे खण्डमुत्तरे शकलद्वयम् । कनिष्ठासारितोक्तेन कार्यस्तालकलाविधिः ॥ २३१ ॥
इति मार्गासारितम् (सु०) अस्या ध्रुवामाह--गुरूणीति । संपक्केष्टाकतालस्था: पूर्वोक्ताः संपक्केष्टाकवत्कला: कार्याः । संपक्केष्टाके पूर्व सताशताश इति दश द्वादश वा कला उक्ताः । अत्र तु द्वादशैव कलाः कार्याः । अन्ये ; आचार्याः द्वादशानां दशानां च कलानां समुच्चयमाहुः । तत्पक्षे द्वाविंशति: कलाः । केचित्त्वाचार्याः पितापुत्रकेण योगमाहुः । अन्ये तु यथाक्षरद्विकलयोः संपक्केष्टाकयो: अष्टादश कलाः परिघट्टनाया ध्रुवामाहुः ॥ २२३-२२७ ॥
इति परिघटना (क०) मार्गासारितं लक्षयति-विस्ताराविद्धेत्यादि । कलतलाख्याभ्याम् ; व्यञ्जनधातुभेदाभ्याम् । तत्र ध्रुवामाह-गाश्चत्वार इत्यादि । तस्यां पातकलायोगं दर्शयति--एकं चच्चत्पुट इत्यादि । कनिष्ठासारितोक्नेति। अत्र
'कनिष्ठासारिते युग्मः शम्यादिद्वावथोत्तरौ ।
एते यथाक्षरास्तेषां संनिपातोऽन्तिमोऽधिकः ॥' इति पूर्वोक्तमनुसंधेयम् ।। २२८-२३१ ॥
Scanned by Gitarth Ganga Research Institute