________________
२७७
पष्ठो वाद्याध्यायः चित्रिता ललिताः स्निग्धा क्रियन्ते करलाघवात् । आरोहबहुला यस्यां तामाहुः परिघटनाम् ।। २२२ ।। गुरूण्यष्टौ च लघवः स्युश्चतुर्विशतिर्गुरू । द्वौ षोडश लघून्यन्ते गुरुयंत्र ध्रुवात्र सा ॥ २२३ ॥ संपक्केष्टाकवद्यद्वा स्युः संपिष्टकवत्कलाः । संपिष्टके कलाः प्रोक्ता दश द्वादश वा पुरा ॥ २२४ ।। संपिष्टककलास्त्वत्र द्वादशैवेति संमतम् । द्वादशानां दशानां च प्राहुरन्ये समुच्चयम् ।। २२५ ॥ संपक्केष्टाकतालं च द्विकलीकृत्य केचन । तद्वादशकला तालयोगमत्र प्रचक्षते ॥ २२६ ।। यथाक्षरद्विकलयोः संपकेष्टाकयोरिह। अष्टादश कलाः केचिदाचक्षत समुचिताः ॥ २२७ ।।
इति परिघटना चित्रिता इति । यथायोगं मिश्रेण रूपान्तरं प्रापिता इत्यर्थः । आरोहबहुलाः; आरोहिवर्णेन प्रचुराः ॥ -२२१, २२२- ॥
___ (सु०) परिघट्टनां लक्षयति-भेदा इति । व्यञ्जनधातूत्था: भेदाः, करणधातुजैः भेदैः, चित्रिता विचित्रिताः, ललिताः, सुकुमाराः, स्निग्धाः मिश्रिताश्च, करलाघवात् मर्दिताः क्रियन्ते, आरोहबहुला: आरोहप्रचुरा यस्यां सा परिघट्टना ॥ -२२१, २२२- ॥
(क०) तत्र ध्रुवामाह -गुरूण्यष्ठेत्यादि । तस्याः पातकलायोगं दर्शयति---संपक्केष्टाकवदित्यादि । स्पष्टार्थो ग्रन्थः ॥ २२३-२२७ ॥
इति परिघट्टना
Scanned by Gitarth Ganga Research Institute