________________
२७६
संगीतरत्नाकरः गुरू द्वौ लघवोऽष्टौ च द्वौ गुरू च लघुर्गुरुः ॥ २१९ ॥ यत्र द्वादश ला गोऽन्ते सा स्यात्संखोटनाध्रुवा । यथाक्षरद्विकलयोः स्युरत्रोत्तरयोः कलाः ।। २२० । नात्र संख्या विदारीणां भणिता भरतादिभिः ।
इति संखोटना भेदा व्यञ्जनधातूत्था भेदैः करणधातुजैः ॥ २२१ ॥
(सु०) विवादिन इति । विवादिनः स्वरान् अल्पकान् कुर्यात् । विस्तारधातुभेदान् अन्यैः धातुभेदैः संमिश्य पृथक् पृथक् द्विवारं त्रिवारं वा अभ्यस्येत् । ततः अनन्तरं केवलान् विस्तारधातुभेदान् द्विः प्रयुज्य, तासु भिदासु अपरान् धातून् मनानिव विलीनानिव यत्र वादकः प्रयुञ्जीत, सा संग्वोटना ॥ -२१७, २१८-॥
(क०) अत्र ध्रुवामाह-गुरू द्वावित्यादि । यथाक्षरद्विकलयोरित्यादि । अयमर्थः- सप्तविंशत्यक्षरात्मिकायां संखोटनाध्रुवायां यथाक्षरस्य षपितापुत्रकस्य कलाः संताशताशताः, द्विकलस्य तस्यैव कलाः निप्रताशनितानि शताप्रनिसमित्येता यथायोगं प्रयोज्या इति । सुगममन्यत् ॥ -२१९, २२०- ॥
इति मंघोटना
(सु०) एतस्यां ध्रुवामाह-गुरू इति । अत्र ध्रुवायां यथाक्षरद्विकलयोः घटपितापुत्रकयो: कलाः कार्याः । अत्र विदारीणां च कलासंख्या भवन्ति । भरतादिभिस्तु कलासंख्या नोक्ताः ॥ -२१९, २२० ।।
इनि संघोटना (क०) परिघटनां लक्षयति-भेदा इति । व्यञ्जनधातूत्थाः पुष्पादयो दश भेदाः । करणधातुजैरिति । घातादिमिः पञ्चभिर्भेदैः ।
Scanned by Gitarth Ganga Research Institute