________________
षष्ठो वाद्याध्यायः बिन्दु मिथो मेलयेत वादिसंवादिनौ स्वरौ ॥ २१६ ।। बहुधा तद् गुणत्वेन प्रयुञ्जीतानुवादिनः। विवादिनोऽल्पकान्कुर्याद्विस्तारस्य भिदास्तथा ॥ २१७ ॥ धात्वन्तमिश्रयित्वाभ्यस्येद् द्विस्त्रिः पृथक्ततः । केवलास्ताः प्रयुज्य द्विस्तासु मनानिवापरान् ।। २१८ ।।
धातून्यत्र प्रयुञ्जीत पाहुः संखोटनाममूम् । व्यञ्जनधातुभेदं वादयन्निति पूर्वेण संबन्धः । वादिसंवादिनौ स्वरौ मिथो मेलयेतेति । षड्जपञ्चमावृषभधैवतौ गान्धारनिषादावन्यौ वा स्वरौ विकृतावस्थौ द्वादशभिरष्टभिर्वा श्रुतिभिरन्तरितौ मिथः संगत्या संवादयेदित्यर्थः । तद्गुणत्वेनेति । तयोर्वादिनोः गुणत्वेनोपसर्जनत्वेन, अनुवादिनः स्वरान् प्रयोगे बहुधा प्रयुञ्जीतेति । वादिनं वा स्थायिनं कृत्वा तत्परिवारत्वेन अनुवादिनः प्रयुञ्जीतेत्यर्थः ॥ २१६- ॥
__ (सु०) संखोटनां लक्षयति । अङ्गुष्ठाभ्यामिति । द्वाभ्यामङ्गुष्ठाभ्यां तर्जन्या च तन्त्री पीडयित्वा बिन्दुं धातुमेकत्र तन्त्र्या प्रहाररूपं पूर्वलक्षितं वादयित्वा वादिसंवादिनौ द्वौ स्वरौ संयोजयेत् । तयोः वादिसंवादिनो: गुणत्वेनाङ्गत्वेन च बहुधा अनुवादिनः प्रयुञ्जीत ॥ २१६-॥
(क०) विवादिनोऽल्पकान् कुर्यादिति । यस्मिन् प्रयोगे यो विवादी स्वरः तमनभ्यस्तं लक्षितं वा कुर्यादित्यर्थः । विस्तारस्य भिदा इति । विस्तारजादीश्चतुर्दश विस्तारधातुभेदान् धात्वन्तरैः करणादिधातुभेदैरित्यर्थः । मिश्रयित्वेति । संकीर्णान् कृत्वेत्यर्थः । द्विस्त्रिा पृथगभ्यसेदित्यर्थः । ततः; अनन्तरं, ता: विस्तारस्य भिदाः केवलाः धात्वन्तरामिश्रा द्विस्त्रि प्रयुज्य तासु मनानिव लीनानिव अपरान् धातून करणादिधातुभेदान् यत्र प्रयुञ्जीत अमूं संखोटनां नाम निर्गीतवाद्यभेदं प्राहुः ।। २१७, २१८ ॥
Scanned by Gitarth Ganga Research Institute