________________
संगीतरत्नाकरः अथ प्रतिमुखं कार्य चतुरावृत्तियोगिना ॥ २१४ ॥ उत्तरेणापरेत्याहुः पूर्वोक्तो यः कलाष्टकः। सोऽत्र कार्यस्त्रिरारत्तो मात्रया तु विदारिका ॥ २१५ ।।
इति वक्त्रपाणिः अङ्गुष्ठाभ्यां च तर्जन्या तन्त्री निष्पीड्य वादयन् । भवति, तन्मुखमिति तालाङ्गं भवति । मतान्तरेण प्रतिमुखं दर्शयतिअथ प्रतिमुखमित्यादि । चतुरागृत्तियोगेनेति । चतसृणामावृत्तीनां योगोऽस्यास्तीति चतुरावृत्तियोगी, तेन उत्तरेण पितापुत्रकेण । स्वमतेन प्रतिमुखं दर्शयति-अत्र ; प्रतिमुखे । पूर्वोक्त इति । शताताशतासमिति । एवं त्रिवारमावृत्तः कार्यः । मात्रया तु विदारिकेति । मात्रया अष्टकलात्मिकया ॥ २१०-२१५ ॥
इति वक्त्रपाणिः
(सु.) वक्त्रपाणिं लक्षयति-बहुलेति । बहुलौ आविद्धकरणौ धातू यस्मिन् , एकश्च व्यञ्जनधातुः, विस्तारधातुश्च नास्ति स वक्त्रपाणिः । अत्र द्वे तालाङ्गे, मुखं प्रतिमुखं चेति कर्तव्यमेव, न वा प्रवृत्तमेककं च मद्रकादिषु लक्षितमङ्ग ज्ञातव्यम् । अत्र ध्रुवामाह-गुरुव इति । या मात्रेति । मद्रके द्विकले वस्तुनः प्रान्ते या मात्रा स्थिता तस्यास्तालोऽत्र ध्रुवायां कर्तव्यः । अष्टसु कलासु मुखं कर्तव्यम् । तत: प्रतिमुखं चतुर्वारमावृत्तेन उत्तरेण पितापुत्रकेण कार्यम् । अन्ये त्वेवमाहुः-पूर्वोक्ता या अष्टौ कलाः ता एव त्रिरावृत्ताः। प्रतिमुखमिति । एकया मात्रया तु विदारीति ॥ २१०-२१५ ॥
इति वक्त्रपाणिः
(क०) अथ संखोटनां लक्षयति- अगुष्ठाभ्यामित्यादि । बिन्दुं ;
Scanned by Gitarth Ganga Research Institute