________________
षष्ठो वाद्याध्यायः
२७३ बहुलाविद्धकरणः स्तोकव्यञ्जनधातुकः । विस्तारधातुना हीनो वक्त्रपाणिः प्रकीर्तितः ।। २१० ।। मुखपतिमुखे स्यातां तालाङ्गे द्वे च नाथवा।। प्रवृत्तं चैककं वर्णाङ्गमत्राथ ब्रुवे ध्रुवाम् ।। २११ ॥ गुरवः पञ्च लाः षट् च गुरवः षड् लघुद्वयम् । चत्वारो गास्तथा लाः स्युस्त्रयो गा लघवोष्ट च ।। २१२ ।। यत्र स्याद् गुरुरन्ते सा वक्त्रपाणों ध्रुवा भवेत् । या मात्रा वस्तुनोऽन्त्या स्याद् द्विकले मद्रके स्थिता ।। २१३ ॥ तस्यास्तालोऽत्र कर्तव्यः कलास्त्वष्टासु तन्मुखम् ।
तस्य ध्रुवामाह-अथेति । गुरव इति । अष्टौ गुरवः ; द्वादश लघवः, पञ्च गुरव इत्याद्यखण्डे | अष्टौ लघवः, एको गुरुः, चत्वारो लघवः, एको गुरुः, पुनश्चात्वागे लघवः, एको गुरुरिति द्वितीयखण्डे । अष्टौ लघवो गुरुश्च तृतीयखण्डे । एवं खण्डत्रयवती ध्रुवा अत्र ; आरम्भविधौ कार्या । एकविंश इति । प्रथमे खण्डे एकविंशतितमे गुरौ विश्रान्ति: । द्वितीये खण्डे चतुर्दशेति । आये खण्डे द्वादश कलाः । द्वितीये खण्डे षट् कलाः । तृतीये खण्डे चतस्रः कलाः । पातकलाविधिमाह-तालत्रयमिति ॥ -२०३-२०९ ॥
इत्यारम्भविधि: (क०) अथ वाक्त्रपाणिं लक्षयति-बहुलाविवेत्यादि । अत्र ; वक्त्रपाणौ, मुखप्रतिमुखे नाम तालाङ्गे विकल्पेन स्याताम् । प्रवृत्तं चैक वा वर्णाङ्गमेकं स्यात् । अथ ध्रुवामाह--गुरवः पश्चेत्यादि । या मात्रेत्यादि । द्विकले मद्रके वस्तुनः चतुर्विंशतिकलात्मकस्य अन्ते या मात्रा स्थिता अष्टकलात्मिका, तस्याः तालोऽत्र कर्तव्य इति ; शताताशतासम् , इति वक्त्रपाणौ ध्रुवाया आद्यास्त्वष्टादशसु कलासु कर्तव्यो
35
Scanned by Gitarth Ganga Research Institute