________________
२७२
संगीतरत्नाकरः
अथ तस्य ध्रुवां ब्रुवे । गुरवोऽष्टौ द्वादशाथ लघवः पञ्च गा इति ।। २०३ ।। पञ्चविंशत्यक्षरं स्यादाडखण्डं ततः परम् । लघवोऽष्टौ गुरुर्लाश्च चत्वारो गश्चतुर्लघुः ॥ २०४ ॥ गश्चेत्येकोनविंशत्या वर्णैः खण्डं द्वितीयकम् । यस्यास्तृतीयखण्डेऽष्टौ ला गोऽन्ते स्याद् ध्रुवात्र सा ।। २०५॥ एकविंशे गुरौ कार्या विश्रान्तिः पूर्वखण्डके । द्वितीयखण्डे विश्राम्येद् गुरौ वर्णे चतुर्दशे ॥ २०६ ॥ स्याद् द्वादशकलं खण्डमाधमन्यत्तु षट्कलम् । चतुष्कलं तृतीयं स्यादथ तालोव कथ्यते ।। २०७ ॥ तालत्रयं च शम्यैका तालौ द्वौ शम्ययोयम् । द्वौ तालौ संनिपातौ द्वावित्याद्ये शकले कलाः ॥ २०८ ।। यथाक्षरस्योत्तरस्य क्रमाञ्चचत्पुटस्य च । कला भवन्ति शकले द्वितीये च तृतीयके ॥ २०९ ।।
इत्यारम्भविधि:
(क०) तस्यारम्भस्य ध्रुवां दर्शयति--अथ तस्येत्यादिना । द्वादशकलं खण्डमाद्यमिति । आद्यं खण्डं पञ्चविंशतिवर्णात्मकं द्वादशकलं स्यात् । अन्यत्तु ; एकोनविंशतिवर्णात्मकं द्वितीयखण्डं तु षटकलं स्यात् । तृतीयं नववर्णात्मकं खण्डं चतुष्कलं स्यादिति । अत्र लघुगुर्वात्मकान् वर्णान् पश्चलघ्वक्षरोच्चारमितासु कलासु सलयं योजयेदित्यर्थः । सुगममन्यत् ॥ -२०३-२०९ ॥
इत्यारम्भविधिः
Scanned by Gitarth Ganga Research Institute