________________
षष्ठो वाद्याध्यायः स्युरारोहावरोहाभ्यां युक्ता विस्तारधातुजाः ॥ २०० ॥ भेदास्तलेन रिभितहादाभ्यां मिश्रिताः क्रमात् ।। ततः करणभेदं द्विस्त्रिाभ्यस्य विलीनवत् ॥ २०१॥ बहुलेन प्रयुक्ते चैकविस्तारे पुनस्तथा । द्विरभ्यस्येदेवमेव करणस्य भिदाः पराः ।। २०२॥ यत्रारम्भविधिः स स्यात् ,
(क०) अथारम्भविधिं दर्शयति-स्युरारोहावरोहाभ्यामित्यादि। विस्तारधातुजा भेदा इति । विस्तारजादयश्चतुर्दश । तलेनेति । व्यञ्जनधातुभेदेन । रिभितहादाभ्यामिति । करणधातुभेदाभ्याम् । क्रमान्मिश्रिता इति । प्रथमं तलेन, अनन्तरं रिभितेन, तदनन्तरं हादेन मिश्रिताः सन्तः आरोहावरोहाभ्यां प्रत्येकं प्रयुक्ताः स्युः । ततः; अनन्तरम् , करणभेदमिति । रिमितादिषु पञ्चस्वेकं द्विस्त्रिर्वा अभ्यस्य । विलीनवद् बहुलेनेति । स्वरेकीकरणप्रचुरेणेत्यर्थः । तादृशेन प्रयोगेण, एकविस्तारे ; एकविस्तारापरपर्याये विस्तारजनाम्नि विस्तारधातुभेदे, पुनः भूयोऽपि प्रयुक्ते सति । पराः करणस्य भिदा इति । प्रथमप्रयुक्ताद्भेदात् अन्यान् भेदानित्यर्थः । एवमेवेति । एकविस्तारयोगेणेत्यर्थः । द्विरभ्यस्येद् यत्र वाद्यविधौ स आरम्भविधिः स्यात् ॥ -२००-२०२- ।।
(सु०) आरम्भविधिं लक्षयति-स्युरिति । विस्तारधातुजा भेदाः; विस्तारजादयश्चतुर्दश धातवः। तलेन; व्यञ्जनेन, रिभितहादाभ्यां युक्ताः, आरोहावरोहाभ्यां क्रमेण स्युः । ततः करणधातोरेकभेदं द्विवारं त्रिवारं वा अस्य बहुशोऽनुप्रयुङ्क्ते । एकस्मिन् विस्तार भेदे विलीनवत् स्वरैकीकरणेन द्विवारमभ्यस्येत् । एवमन्येऽपि करणधातोर्मेंदा यत्राभ्यस्यन्ते स आरम्भविधिः ।। -२००-२०२- ॥
Scanned by Gitarth Ganga Research Institute