________________
२७०
संगीतरनाकरः यथाक्षरस्य युग्मस्य द्विराच्या विदारिका । आद्या तथा द्वितीया स्यात्तयोरन्ते कलाद्वयम् ।। १९६ ।। एवमष्टादश कलास्ततो युग्माद्ययाक्षराव । विदारी स्यात्तृतीयान्ये विदारीरन्यथा जगुः ।। १९७ ।। आद्या द्विकलयुग्मेन द्वितीया च तथा भवेत् । यथाक्षरेणोत्तरेण तृतीयान्येज्यथा जगुः ॥ १९८ ॥ पूर्वोक्ता द्वादश कला विदार्याद्या परा पुनः । यथाक्षरेणोत्तरेण शेषा युग्माद्यथाक्षरात् ।। १९९ ॥ एवमाश्रवणामाह श्रीमान्यज्ञपुरायणीः ।
इत्याश्रावणा विदारीरथेत्यादिना। विदारी गीतखण्डमिति प्रागुक्तम् । अत्र वाद्यखण्डमिति द्रष्टव्यम् । उत्तरो ग्रन्थस्तु विस्पष्टार्थः ॥ १९३-१९९. ॥
इत्याश्रावणा (मु०) एष्विति । एषु त्रिष्वपि पक्षेषु उत्तरः षपितापुत्रक: चञ्चत्पुटश्च अतीतग्रहेण युक्तः कार्य: । शम्येति । प्रथमा विदारी शम्यात्रयेण कार्या । द्वितीया तु तालत्रयेण कार्या । तृतीया शम्याद्वयेन कार्या | तुर्या तु तालद्वयेन । पञ्चमी शम्यातालाभ्याम् । षष्ठी पञ्चपाणिना पितापुत्रकेण । सप्तमी चच्चत्पुटेनेति । अन्येषां मतमाह–ता इति । परं; आचार्या: ताः; विदारीः । तिस्रइति मन्वते । ता एव लक्षयति-यथाक्षरेति । यथाक्षरस्य चच्चत्पुटस्य द्विरावृत्त्या प्रथमा विदारी । तथैव द्वितीया । तयोः; प्रथमद्वितीययोः विदार्योः ; अन्ते ; कलाद्वयमधिकम् | यथाक्षरचच्चत्पुटवत् तृतीया विदारी। अन्ये ; आचार्या:, विदारीत्रयमन्यथा जगुः । द्विगुणा चच्चत्पुटेनाद्या । तथैव द्वितीया यथाक्षरषपितापुत्रकेण । तृतीया यथाक्षरचच्चत्पुटेनेत्याहुः ॥ १९३-१९९-॥
इत्याश्रावणा
Scanned by Gitarth Ganga Research Institute