________________
संगीतरत्नाकर:
"" निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिस्तथैव च ।
शान्त्यतीतेति संप्रोक्ताः कलाः पञ्चविधा बुधैः ॥
""
:
इति । तथान्याः श्वेतादयोऽपि बढ्यः कलास्तत्रैवोक्ताः । ताः सर्वाः कला अस्मिन्निधीयन्त इति शिवः कलानिधिरुक्तः । एवंविधे, यत्र; यस्मिन् शिवे । यतीनाम् ; यमनियमाद्यष्टाङ्गयोग निरतानां मुमुक्षूणाम् । नानामागैः; सांख्ययोगादिभि: बहुभिः प्राप्त्युपायैः । लयः; अन्तर्भावः ; परमात्मना शिवेनैक्यमिति यावत् । स्यात्; भवेत । दक्षिणम् ; दक्षिणामूर्तिम् । अत्र नामैकदेशेन व्यपदेशो द्रष्टव्यः । यथा भीमसेनो भीम इति, सत्यभामा भामेति च । पुनः किंविधम् चित्रम् ; प्रपञ्चाकारतया नानारूपम् । वृत्तिमयम् सविषयज्ञानानि वृत्तिशब्देनोच्यन्ते, तन्मयं तदाकारम् । ध्रुवम् ; निरुपाधिकतया नित्यम् । शिवं नौमीति प्राकरणिकत्वेन वाच्योऽर्थः । एतैरेव विशेषणैर्गम्यमानोऽर्थस्तु कला निधौ ; अत्र कलाशब्देन वक्ष्यमाणा आवापादयो निःशब्दाः ; ध्रुवादयः सशब्दाश्वोच्यन्ते ; तासामाश्रयः । यत्र यस्मिन् ताले; यतीनाम् ; वक्ष्यमाणानां समास्रोतोवहागोपुच्छानाम् । नानामार्गैः; वक्ष्यमाणैः ध्रुवादिभिः । लयो विश्रान्तिर्भवति । मार्गभेदेन दक्षिणादिव्यपदेशभाजं शिवं मङ्गलं तं तालं स्तौमीति । अनेनात्र समासोक्तथलंकार उद्भावितो भवति । " विशेषणसाम्यादप्रस्तुतस्य गम्यत्वे समासोक्ति: ” (अलं. सू. ३१) इति हि तस्य लक्षणम् । अत्र स्तुत प्रस्तुतः शिवः ; तालोऽप्रस्तुतः ॥ १ ॥
सुधाकर:
चतुथंऽध्याये प्रबन्धलक्षणमुक्तम् । तेषु तालानामुपयोग उक्तः । एलासु मण्ठद्वितीयकङ्कालप्रतिताला: रासकेऽष्टौ ताला : ; झोम्बडे दश ताला इति । तत्र कोऽयं ताल: ? के तद्विशेषा इत्याकाङ्क्षायां तालान् विवक्षुस्तदुचितं
Scanned by Gitarth Ganga Research Institute