________________
शिवाभ्यां नमः श्री-निःशङ्कशाह्नदेव-प्रणीतः संगीतरत्नाकरः
चतुरकल्लिनाथ-विरचितया कलानिध्याख्यटीकया सिंहभूपालविरचितया संगीतसुधाकराख्यटीकया च समेत:
पञ्चमस्तालाध्यायः नानामागैर्लयो यत्र यतीनां स्यात्कलानिधौ । तं दक्षिणं शिवं नौमि 'चित्रं वृत्तिमयं ध्रुवम् ॥ १ ॥
कलानिधिः प्रबन्धाङ्गत्वेन प्रसक्तं तूर्यत्रयाधिष्ठानभूतं तालं लक्षयिष्यन् तं चात्र विशेषणसाम्यादवगमयन् प्रकरणादाविष्टदेवतां स्तौति-नानामागैरित्यादिना। शिवपक्षे कलाशब्देन शिवाश्रयाः शक्तय उच्यन्ने। यथोक्तं किरणादिप्वागमेषु ;
'चित्रवृत्तिमयमिति सुधाकरपाठ:
Scanned by Gitarth Ganga Research Institute