________________
षष्ठो वाद्याध्यायः भेदानिर्गीतवाद्यस्य वैणस्याथ प्रचक्ष्महे ॥ १७८ ।। आश्रावणारम्भविधिर्वक्त्रपाणिस्ततः परम् । संखोटना चतुर्थी च पञ्चमी परिघट्टना ॥ १७९ ।। मार्गासारितकं लीलाकृतमासारितत्रयम् । दशेति शुष्कवाद्यानि तल्लक्ष्म व्याहरेऽधुना ॥ १८० ।। विस्तारधातुभेदानामादिमं द्विः प्रयुज्यते । द्वितीयं च प्रयुज्य द्विराचं भेदं द्वितीयकम् ॥ १८१॥ लीनाकृति द्विरुच्चार्य तद्वद्युग्मान्तराण्यपि । प्राक्पाग्युग्मोत्तरादीनि प्रयुञ्जीत तदा भवेत् ।। १८२ ।। आश्रावणं शुष्कवाद्यमत्र त्वाह विशाखिलः ।
विस्तारधातुभेदानां प्रयोगे द्रुतरूपताम् ।। १८३ ॥ तदेव चातुर्यात् भागशः समुदायानुकारितमवयवसंघातानुकारं, पाणिघातैः पाणिप्रहारैः दर्शयेत् स ओघः । एकेति । एतद्विस्तारधात्वादिवादनमेकविंशतितन्त्री या मत्तकोकिला, तत्र स्थितं ज्ञातव्यम् । एतदेकतन्त्र्यादिवीणासु यथासंभवं प्रवर्तयेत् कुर्यात् । एकतन्त्र्यां तु यद्वादनं प्रोक्तं तन्नकुलादिषु वक्ष्यमाणे वैणवे यथासंभवं योज्यम् ॥ १७१-१७७- ॥
___ इति गीतानुगवाद्यत्रयलक्षणम् (क०) एवं गीतानुगवाद्यप्रसङ्गाद् बुद्धयारूढान् संगीतवाद्यभेदान् लक्षयितुमाह-भेदानिर्गीतवाद्यस्येत्यादिना । अथ ; अनन्तरम् । वैणस्येति ; वीणायाः संबन्धी वैणः, तस्य । निर्गीतवाद्यस्य भेदानुद्दिशति
आश्रावणेत्यादि । आसारितत्रयमिति । ज्येष्ठं मध्यं कनिष्ठमित्यर्थः । निर्गीतवाद्यान्येव शुष्कवाद्यानीत्युच्यन्ते । विस्तारधातुभेदानां चतुर्दशानामादिमं विस्तारजं नाम भेदं द्विः द्विवारं प्रयुज्य, द्वितीयं च द्विरुत्तराख्य
Scanned by Gitarth Ganga Research Institute