________________
२६४
संगीतरत्नाकर:
विलम्बिते गीतलये वैदग्ध्याद् द्रुतवादनम् ।। १७४ ।।
इत्यनुगतम्
गीतस्यान्तेऽनुकर्तापि भागशश्चातुरीवशात् । निरन्तरैः पाणिघातैः समुदायानुकारितम् ॥ १७५ ॥ वादको दर्शयेद्वाद्ये यत्त्रौघं तं प्रचक्षते ।
इत्योघः
एकविंशतितन्त्री स्थमेतद्धात्वादिवादनम् ।। १७६ ॥ एकतन्त्र्यादिवीणासु यथायोगं प्रवर्तयेत् । एकतन्त्र्यां तु यत्प्रोक्तं तज्ज्ञेयं नकुलादिषु ।। १७७ ।। वेणावपि तदिच्छन्ति वेणुप्रावीण्यशालिनः ।
इति गीतानुगं वाद्यम्
तत्त्वादीनां त्रयाणां वाद्यानां सामान्यलक्षणम् । तेषां विशेषलक्षणानि स्पष्टार्थानि । तत्र विरामशब्दस्य अवसानार्थत्वात् लयाद्भेदो द्रष्टव्यः । तथा विरतिशब्दस्यापि ॥ १७१-१७७- ॥
इति गीतानुगवाद्यत्रयलक्षणम्
(सु० ) वृत्तित्रयानुगतं वाद्यत्रयं लक्षयति - तत्त्वमिति । वाद्यं त्रिविधम्तत्त्वम्, अनुगतम्, ओघश्चेति । एतेषां लक्षणं प्रतिज्ञाय क्रमशः कथयतिलयमिति । गीतिगतं लयतालादिकं व्यञ्जयत्प्रकटीकुर्वद्वाद्यं ततमित्युच्यते । गीतस्य किंचिदनुहरणादंशाभिव्यक्तेर्वाद्यमनुगतमित्युच्यते । अन्यत्र गीते यथा विरतिस्तथैवानुगते वाद्ये विरतिः स्थानान्तरे स्थितिः तथैव, किंतु गीतलये विलम्बिते सति तदनुगतं वाद्यं वैदग्ध्यात् चातुर्यात् द्रुतवादनं द्रुतलयेन वादनं यस्मिन्निति । यस्मिन् वाद्ये गीतस्य अनुकर्ता त्रयं गीतानुकारमनुकुर्वन्नपि
Scanned by Gitarth Ganga Research Institute