________________
षष्ठो वाद्याध्यायः तत्त्वं भवेदनुगतमोघश्चेति निरूपितम् । गीतानुगं त्रिप्रकारं वाद्यं तल्लक्ष्म कथ्यते ॥ १७१ ।। लयं तालं विरामं च यति गीति तथाक्षरम् । वर्णग्रामविभागं च नानाजात्यंशकादिकम् ॥ १७२ ॥ व्यञ्जद्गीतगतं गीतमिलितं तत्त्वमुच्यते ।
इति तत्त्वम् किंचिद्गीतानुहरणाद्वाद्यं त्वनुगतं मतम् ॥ १७३ ॥ यथा विरतिरन्यत्र स्थितिः स्थानान्तरेष्वपि ।
(सु०) वृत्तिं लक्षणयति-वृत्तिरिति । गुणप्रधानत्वरूपो गीतवाद्ययोयवहारो वृत्तिरित्युच्यते । सा त्रिविधा-चित्रा, वृत्तिः ; दक्षिणा चेति । एतासां लक्षणमाह-चित्रेति । वाद्यस्य प्राधान्यं गीतस्य गुणत्वमङ्गत्वं चित्रा वृत्ति: ; उभयोर्गीतवाद्ययो: साम्यं वृत्तिसंज्ञिका वृत्तिः । गीतस्य प्राधान्यं वाद्यस्याङ्गत्वं दक्षिणा वृत्तिः । एतासु मतान्तरेण लक्षणादीनिगमयति-द्रुतादिकानिति । एतासां चित्रादीनां वृत्तीनां क्रमात् द्रुतमध्यविलम्बिता लया इत्यपरे आचार्या नियममाहुः । चित्रायां समा यति:; वृत्तौ स्रोतोगता ; दक्षिणायां गोपुच्छेति । चित्रायां मागधी ; वृत्तौ संभाविता; दक्षिणायां पृथुलेति । चित्रायामोघं वाद्यम् ; वृत्तावनुगतम् ; दक्षिणायां तत्त्वं वाद्यमिति । एतानि वाद्यान्यनुपदमेव लक्षयिष्यति । चित्रायां चित्रो मार्गः; वृत्तौ वार्तिकः; दक्षिणायां दक्षिण इति । चित्रायामनागतो ग्रहः ; वृत्तौ समः ; दक्षिणायामतीत इति ॥ -१६६-१७०॥
इति वृत्तित्रयलक्षणम्
(क०) एवं वृत्तीनां प्रयोगनिरूपणे प्रसक्तानि तत्त्वादीनि वाद्यानि ससामान्यं लक्षयितुमाह-तत्त्वं भवेदित्यादिना । अत्र गीतानुगमिति
Scanned by Gitarth Ganga Research Institute