SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ २६२ संगीतरत्नाकरः वृत्तिर्गुणप्रधानत्वरूपा व्यवहतिर्मता ॥ १६५ ॥ चित्रा वृत्तिर्दक्षिणा च तिस्रः स्युरिति वृत्तयः । चित्रा वाद्यप्रधानत्वाद्गीतस्य गुणतोच्यते ॥ १६६ ॥ उभयोः समभावेन वृत्तिवृत्तिरुदाहृता।। गीतप्रधानतावाद्यगुणता दक्षिणा मता ॥ १६७ ।। द्रतादिकाललयानासां नियच्छन्ति क्रमात्परे । समां स्रोतोगतां तद्वद्गोपुच्छां च यति क्रमात् ॥ १६८॥ मागधीं संभाविताख्यां गीतिं च पृथुलां क्रमात् । ओघं चानुगतं तवं वाद्यान्येतान्यनुक्रमात् ।। १६९ ॥ मार्ग चित्रं वार्तिकाख्यं दक्षिणाख्यं यथाक्रमम् । अनागतसमातीतान् ग्रहानिह च मन्यते ॥ १७० ॥ ___ इति वृत्तित्रयम् (क०) अथ धात्वाश्रितत्वेन प्रसक्ता वृत्तीः ससामान्य लक्षयतिवृत्तिर्गुणप्रधानेत्यादिना । ' गुणप्रधानत्वरूपा व्यवहृतिः' इत्यत्र गुणप्रधानग्रहणसामर्थ्यात् गीतवाद्ययोर्व्यवहृतिरिति गम्यते । कथम् ? प्रकृतत्वेन वाद्यस्यैवोपादान एकस्यैकदा गुणप्रधानभावायोगात् द्वयोरुपादानं कर्तव्यम् । तत्र प्रकृतसाहचर्येण गीतनृत्ते प्रसक्ते, तयोर्मध्ये नृत्तापेक्षया वाद्यं प्रति गीतम्यैवान्तरङ्गत्वात् तदेवोपादेयं भवति । तेन गीतवाद्ययोर्व्यवहृतिरित्यर्थः । चित्रादीनां विशेषलक्षणानि स्पष्टार्थानि । द्रुतादिकानित्यादि । चित्रायां द्रुतलयम् ; वृत्तौ मध्यलयम् ; दक्षिणायां विलम्बितलयं नियच्छन्ति नियमयन्ति । एवं यतिगीतवाद्यमार्गग्रहानपि क्रमेण योजयेत् ॥-१६५-१७०॥ इति वृत्तित्रयलक्षणम् Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy