________________
२६१
षष्ठो वाद्याध्यायः इत्येते धातवः प्रोक्ताः सर्ववाद्योपयोगिनः ॥ १६३ ॥ यथास्थानं प्रयोक्तव्यास्ते च वृत्तिसमाश्रयाः । तत्र जातिरुदात्ता स्याद्विस्तारे करणे घना ॥ १६४ ॥ आविद्धाधातौ रिभिता व्यञ्जने ललिता मता।
___ इति चतुस्त्रिंशद्धातवः
यज्ञपुरग्रामवासी शाहूदेव आचष्ट । सजातीयविजातीयभेदसंमिश्रणादनुबन्धस्य लक्षणं पूर्ववद्बोध्यं ज्ञातव्यम् । आक्षिपति-नन्विति । अयमनुबन्धो भेद एकलक्षणयुक्त एव, किमिति पृथग्गण्यते ? परिहरति-मैवमिति । येषां धातुभेदानां यत्राधिक्यं तेन धातुना विशिष्टोऽसौ भेदं प्राप्नोति ॥ १५४-१६२-॥
___ (क०) धातुलक्षणमुपसंहरति-इत्येत इति । सर्ववाद्योपयोगिन इति । अत्र सर्वशब्दः संकुचवृत्तिः ततवाद्यविषयो द्रष्टव्यः । इतरेषु प्रहारविशेषोत्यसकलस्वरासंभवात् । वृत्तिसमाश्रया इति ; वृत्तयो वक्ष्यमाणाः चित्रादयः, तासामाश्रयभूता इति तत्पुरुषः । यथास्थानं प्रयोक्तव्या इति; यस्मिन् रागे येन धातुना रक्तिविशेषो लभ्यते स तस्य स्थानं तदनतिवृत्त्येत्यर्थः । सुगममन्यत् ॥ -१६३, १६४- ।।
इति चतुस्त्रिंशद्धातवः (सु०) उपसंहरति-इत्येत इति । एते वाद्योपयोगिनो धातवः प्रोक्ताः। एते वृत्तिसमाश्रयेण यथास्थानं रागतानादिसिध्यर्थ प्रयोक्तव्याः । वृत्तीरनुपदमेव लक्षयिष्यति । तत्रेति । एषु धातुषु मध्ये विस्तारे धातौ उदात्ता जाति: ; करणे धातौ घना जातिः; आविद्धे धातौ रिभिता जातिः ; व्यञ्जने धातौ ललिता जातिरिति जातिलक्षणं नाम्नैव ज्ञातव्यम् । एवं चतुस्त्रिंशद्धातवः प्रतिपादिताः ॥ -१६३, १६४-॥
इति चतुस्त्रिंशद्धातवः
Scanned by Gitarth Ganga Research Institute