________________
२६०
संगीतरत्नाकरः
यत्रावमृष्टमाचष्ट तद्यज्ञपुरमण्डनः ।
इत्यवमृष्टम् (९) उक्तानुबन्धवद्धोध्यमनुबन्धस्य लक्षणम् ॥ १६१ ॥ नन्वेकलक्ष्मभेदोऽयं गण्यते किं पृथक्पृथक् । मैवं तद्धातुभेदानां बाहुल्यं यत्र दृश्यते ॥ १६२ ॥ विशिष्टो धातुना तेन सोऽनुबन्धो भिदां व्रजेत् ।
इत्यनुबन्धः प्रहारसंख्यानियमो लघुगुरुनियमश्च न विवक्षित इत्यर्थः । उक्तानुबन्धबद्धोध्यमनुबन्धस्य लक्षणमिति ; यथायोगं पुष्पादिभेदमिश्रणोद्भव इत्यर्थः । अत्रानुबन्धचतुष्टये द्वितीयाद्यनुबन्धलक्षणेषु पूर्वपूर्ववदित्यतिदेशात् चतुर्णामप्येकलक्षणत्वेन पृथग्गणनमयुक्तमित्याक्षिपति-नन्विति । तत्तद्धातु. भेदानां पृथक्त्वे सत्येव पूर्वपूर्ववदित्यतिदेशस्य मिश्रणमात्रविषयत्वेन चतुर्णामपि भिन्नलक्षणत्वात् पृथग्गणनमुपपद्यत इति समाधत्ते--मैवमिति ॥ १५४-१६२-॥
(सु०) व्यञ्जनधातुभेदानाह-अगुलीति । अङ्गुलीनां मेदमात्रेण व्यञ्जनधातुः । तत्राङ्गुष्ठद्वयेन कनिष्ठया च यत्रैका तन्त्री निहन्यते तत् पुष्पम् (१); यदा नानास्थानकेन चावर्तमानमेकस्वरं तन्त्रिकाद्वयमेकस्मिन् काले अङ्गुष्ठाभ्यां वादको हन्ति चेत् , तदा कलमित्युच्यते (२); तथैव वामाङ्गुष्टेन निपीड्य दक्षिणतस्तन्त्री यत्र हन्ति, तदा तलम् (३); एकस्यां तन्त्र्यां गुरुनादकारी प्रहारो बिन्दुः (४); एकस्मिन्नेव स्वरे क्रमात् सर्वाभिरगुलीभिः कृतो घातो रेफः (५); पूर्वस्मिन् लक्षितं तलं कृत्वा अवरोहेण घात: अनुस्वनितम (६); वामागुष्टेन ऊर्ध्वमधश्च घातो निष्कोटितम (७); तर्जन्या अतिमधुरनादकारी उन्मृष्टम् (८); दक्षिणकनिष्ठया अङ्गुष्ठाभ्यामध: सरन् गच्छन् स्थानत्रय एकस्वरं तन्त्रीत्रयं यत्र पृथक् हन्ति तदवमृष्टम् (९); इति
Scanned by Gitarth Ganga Research Institute