________________
२५९
षष्ठो वाद्याध्यायः अङ्गुलीभेदमात्रेण व्यञ्जनस्तद्भिदां ब्रुवे । अङ्गुष्ठाभ्यां कनीयस्या तन्त्रीरेका निहन्यते ॥ १५४ ॥ युगपद्यत्र तत्पुष्पमभिलेषुः पुरातनाः।
___ इति पुष्पम् (१) एकस्वरं यदा नानास्थानकं तन्त्रिकाद्वयम् ।। १५५ ॥ अङ्गुष्ठाभ्यामेककाले निहन्ति स्याकलं तदा।
इति कलम् (२) दक्षिणाङ्गुष्टतो हन्ति वामागुष्ठनिपीडिताम् ॥ १५६ ॥ तन्त्री यत्र तदाचष्ट तलं सोढलनन्दनः ।
इति तलम् (३) बिन्दुरेका तन्त्र्यां स्यात्पहारो गुरुनादकृत् ।। १५७ ।।
___ इति बिन्दुः (४) रेफस्त्वेकस्वरो घातः क्रमात्सर्वाङ्गुलीकृतः ।
इति रेफ: (५) तलं कृत्वावरोहेण घातोऽनुस्वनितं मतम् ॥ १५८ ।।
इत्यनुस्वनितम् (6) वामागुष्ठेन तूर्ध्वाधोघातो निष्कोटितं मतम् ।
इति निष्कोटितम् (७) घातोऽतिमधुरध्वानस्तर्जन्योन्मृष्टमुच्यते ॥ १५९ ॥
इत्युन्मृष्टम् (८) कनिष्ठया दक्षिणयाङ्गुष्ठाभ्यामप्यधः सरन् । हन्ति त्रिस्थानकं तन्त्रीत्रयमेकस्वरं पृथक् ॥ १६० ।।
(क०) व्यञ्जनधातूनाह-अगुलीभेदमात्रेणेति । व्यञ्जनधातौ
Scanned by Gitarth Ganga Research Institute