________________
२५८
संगीतरत्नाकर:
लघुर्यत्रातिकर्णोऽसौ
अतिपातो लगाभ्यां द्विः
प्लुतो लघुगुरुर्भवेत् ॥ १५१ ॥
इति प्लुतः (२)
इत्यतिपात : (३)
चतुर्वारं लगौ ततः ।
इत्यतिकीर्ण: ( ४ )
अनुबन्धस्तु पूर्ववत् ॥ १५२ ॥
इत्यनुबन्ध: (५)
द्वाभ्यां त्रिभिश्चतुर्भिश्च नवभिर्लघुभिः क्रमात् । क्षेपादयोऽत्र चत्वारो भवन्तीत्यपरेऽब्रुवन् ॥ १५३ ।।
इति पश्वाविद्धधातुभेदाः
( o ) अनुवन्धस्तु पूर्ववदिति । आविद्धधात्वनुबन्धस्तु यथायोगं क्षेपादिभेदमिश्रणोद्भव इत्यर्थः ॥ १५१ - १५३ ॥
इति पश्वाविद्धधातुभेदाः
हीनो वा धातुराविद्धः । तस्य भेदान् लक्षयति-क्षेप इति । एको लघुः गुरुद्वयं च क्षेप:; इति क्षेप: (१) ; लघुगुरुलघुभिः प्लुत: ; इति प्लुतः (२); द्विरुच्चारिताभ्यां लघुगुरुभ्यामतिपात: ; इत्यतिपात: (३); चतुर्वारं लघुगुरू उच्चार्यान्ते लघुरतिकीर्ण:; इत्यतिकीर्ण: ( ४ ) ; सजातीयविजातीयसंमिश्रणादनुबन्धः ; इत्यनुबन्धः पूर्ववत् । (५); आद्यानां चतुर्णा मतान्तरेणान्यथालक्षणमाह — द्वाभ्यामिति । द्वाभ्यां लघुभ्यां क्षेपः ; त्रिभिर्लघुभिः प्लुतः ; त्रिभिश्चतुर्भिर्लघुभिरतिपात: । नवभिर्लघुभिरतिकीर्ण इति केचिदाहुः ॥ १११-१९३ ॥ इति पश्वाविद्धधातु मेदाः
Scanned by Gitarth Ganga Research Institute