________________
२६६
संगीतरत्नाकरः आद्यखण्डे यदायौ द्वावेकादशचतुर्दशौ । वर्णः पञ्चदशस्तद्वचतुर्विंशो गुरुभवेत् ॥ १८४ ॥ लघवोऽष्टादशान्ये स्युरेवं खण्डे द्वितीयके ।
तृतीये तु तृतीयो गोऽष्टमपञ्चदशौ तथा ॥ १८५ ॥ मपि द्विःप्रयुज्य, आद्यं भेदं विस्तारजं द्वितीयकं द्विरुत्तरं लीनाकृतिमन्त ताकारं द्विरुच्चार्य, तद्वद्युग्मान्तराण्यपि प्राक प्रयुग्मोत्तरादीनीति । अयमर्थः-प्रथम द्वितीयभेदौ प्राग्युग्मम् । तदुत्तरः तृतीयो भेदः द्विरुत्तराख्यं स आदिर्येषां युग्मानां तानि तथोक्तानि । तृतीयचतुर्थौ द्वितीयं युग्मम् । एवं पञ्चमषष्ठौ तृतीयं युग्मम् । सप्तमाष्टमौ चतुर्थ युग्मम् । एवं सप्त युग्मानि प्रयुञ्जीत चेत , तदा आश्रावणा नाम शुष्कवाद्यभेदो भवति । विशाखिलो नाम आचार्यः । द्रुतरूपताम् ; द्रुतलययुक्तस्वरूपताम् ॥ -१७८-१८३ ।।
(सु०) वाद्यभेदानाह-भेदानिति । निर्मातवाद्यस्य ; गीतशून्यवाद्यस्य वीणासंबन्धिनो वाद्यभेदान् प्रचक्ष्महे कथयामः । तानेव भेदानाह-आश्रावणेति । आधावणादय आसारितान्ताः शुष्कस्य गीतानुगतवाद्यस्य भेदाः । तेषां लक्षणमाह-विस्तारेति । विस्तारधातोर्मेदानां पूर्वोक्तानां मध्ये आदिम विस्तारजं द्वि: द्विवारं प्रयुज्य द्वितीयं च द्विवारं प्रयुज्य आद्यं भेदं द्वितीयं च द्विवारं प्रयुज्य आद्यं भेदं द्वितीयभेदे लीना विलीना दक्षिणाकृतिर्यस्य तथाविधं द्विवारमुच्चार्य तद्वदेव युग्मान्तराणि द्वौ द्वौ भेदौ द्विरुत्तरादिको यदा प्रयुञ्जीत तदा आश्रावणेत्युच्यते । मतान्तरमाह-शुष्केति । विशाखिल आचार्य: आश्रावणं शुष्कवाद्यमाह । विस्तारधातुभेदानां द्रुतलययुक्तस्वरूपतां चाहेति संबन्ध: ।। -१७८-९८३ ॥
__(क०) प्रसङ्गादाश्रावणायां ध्रुवां लक्षयति--आधखण्ड इत्यादि। आधौ दाविति । प्रथमद्वितीयावित्यर्थः । लघवोऽष्टादशान्ये स्युरिति ।
Scanned by Gitarth Ganga Research Institute