________________
२५३
षष्ठो वाद्याध्यायः विस्तीर्णनादभेदत्वाद्विस्तारो धातुरुच्यते । प्रहारलाघवात्कृत्वा स्वरानेकीकृतानिव ॥ १३५ ॥ वैचित्र्यात्कापि विश्रान्तः स्वरो विस्तारजो भवेत् । एकविस्तारसंज्ञं तमपरे सूरयो जगुः ॥ १३६ ।। अलंकारत्वमप्यस्य निःशङ्को निरदीधरत् ।
इति विस्तारजः
पञ्च भेदाः । व्यञ्जनस्य पुनः पुष्पादयो दश भेदाः । एवं सर्वे मिलित्वा चतुस्त्रिंशद्भेदा भवन्ति ॥- १२४-१३४ ॥
(क०) विस्तारधातुलक्षणमाह-विस्तीर्णनादभेदत्वादिति । विस्तीर्णश्चासौ नादभेदश्चेति कर्मधारयः । नादभेदस्य विस्तीर्णत्वं नाम अयममुकः स्वर इति विविक्तत्वेन ज्ञानविषयत्वं द्रष्टव्यम् । प्रहारलाघवादिति । वादने हस्तलाधवादित्यर्थः । एकविस्तारसंज्ञमिति । एकस्यैव स्वरस्य विविक्तत्वादिति भावः । अलंकारत्वमपीति । अस्य विस्तारजस्य न केवलं स्वररूपत्वम् , किंतु विशिष्टवर्णसंदर्भस्वरूपत्वमपीत्यर्थः । एवमेकप्रहारभवो विस्तारजः । द्विप्रहारभवः संघातजः । त्रिप्रकारभवः समवायजः । यथायोगमेतद्भेदमिश्रणोद्भवोऽनुबन्धो नामान्वों धातुरिति द्रष्टव्यम् ॥ १३५, १३६.॥
(सु०) तत्र विस्तारधातुभेदं लक्षयति–विस्तीर्णेति । विस्तीर्णो नादभेदो यस्य स तथाविधः, तस्य भावस्तत्त्वम् , तस्मात् विस्तारो धातुः प्रहाराणां लाघवात् शीघ्रकरणात् एकीभूतानेव स्वरान् कृत्वा क्वापि स्वरवैचित्र्यात् विश्रान्ति: विस्तारजो धातुः । अन्ये त्वेतमेकविस्तारमित्याहुः । शार्ङ्गदेवस्तु एतस्य अलंकारसंज्ञत्वमपि निरदीधरत् निर्धारयति स्म ॥१३५,१३६-॥
Scanned by Gitarth Ganga Research Institute