________________
२५२
संगीतरत्नाकरः अनुबन्धश्चेति चतुर्भेदः संघातजो भवेत् ।। १२७ ।। द्विरुत्तरो द्विरधरोऽप्पधराद्युत्तरान्तकः । उत्तराद्यधरान्तश्चेत्यष्टधा समवायजः ॥ १२८ ॥ त्रिरुत्तरत्रिरधरोऽथ द्विरुत्तरपूर्वकः । अधरान्तो द्विरधरोत्तरान्तश्चोत्तरादिकात् ।। १२९ ।। परो द्विरधरोऽथ स्यादधरादिरुित्तरः । मध्योत्तरद्विरधरोऽधरमध्यद्विरुत्तरः ।। १३० ।। एवं चतुर्दशविधो विस्तारः शाङ्गिणोदितः । करणस्य तु भेदाः स्यू रिभितोचयसंज्ञकौ ॥ १३१ ॥ तथा नीरटितो हादोऽनुवन्ध इति पञ्च ते ।। क्षेपः प्लुतोऽतिपातश्चातिकीणोंऽप्यनुबन्धकः ॥ १३२ ।। इत्याविद्धे पश्च भेदा दश तु व्यञ्जने मताः । पुष्पं कलं तलं विन्दु रेफो निस्वनितं ततः ।। १३३ ।। निष्कोटितमथोन्मृष्टमवमृष्टनिवन्धनौ । इति सर्वे चतुस्त्रिंशन्मिलिता धातवो मताः ॥ १३४ ॥
(सु०) धातून् प्रयोजनपूर्वकं वक्तुं प्रतिजानीते-पुष्णन्तीति। ये वीणायाः पूर्वोक्तं वाद्यं पुष्टं कुर्वन्ति, रक्तिं रजकत्वं च दधति कुर्वन्ति ; अदुष्टां दोषरहितां पुष्टिं नादं च ये धातवः कुर्वन्ति, अधुना तान् ब्रुवे कथयामि । धातून् लक्षयित्वा विभजते—य इति । ये प्रहारविशेषेण उत्थाः उदिताः स्वराः, ते धातवः चतुर्धाः; विस्तारः, करणः; आविद्धः, व्यञ्जनश्चेति । विस्तारोऽपि चतुर्धा, विस्तारजः, संघातजः, समवायज:, अनुबन्धजश्चेति । संघातजोऽपि द्विरुत्तरादिभेदेन चतुर्विधः ; समवायजस्तु त्रिरुत्तरादिभेदेनाष्टविधः । एवं चतुर्दशविधो विस्तारधातुः । करणधातौ रिभितादयः पञ्च भेदाः । आविधौ क्षेपादयः
Scanned by Gitarth Ganga Research Institute