________________
२५१
षष्ठो वाद्याध्यायः तथैवातिद्रुतलयं करचातुर्ययोगतः । वैपश्चिकाद्याः कुर्युश्चेदोघमाचक्षते तदा ।। १२२ ।।
___ इत्योधः (५) अंशसंवाद्यन्यतरस्वरव्यञ्जिकया यदा। तन्त्र्यैकयैव करणं स्यान्मुख्यामुख्यवीणयोः ।। १२३ ॥ प्रतिशुष्कां तदाचष्ट शाङ्देवो विदांवरः ।
इति प्रतिशुष्का (६)
इति षद् करणानि पुष्णन्ति वीणावाद्यं ये रक्तिं दधति चातुलाम् ॥ १२४ ।। कुर्वन्त्यदुष्टपुष्टिं च तान्धातूनधुना ब्रुवे । ये प्रहारविशेषोत्थाः स्वरास्ते धातवो मताः ॥ १२५ ।। विस्तारकरणाविद्धव्यञ्जनाश्चेति धातवः । चतुर्धा तेषु विस्तारश्चतुर्धा बोधितो बुधैः ॥ १२६ ॥
विस्तारजश्च संघातजोऽथ स्यात्समवायजः । (४) यदा मुख्यवैणिकः विलम्बितलयप्रयोगं दर्शयति, तथैव अमुख्या विपञ्च्यादिवादकाः, करचातुर्ययोगतः; हस्तवैदग्ध्यात् द्रुतलयं कुर्युः तदा ओघ ; इत्योध: (१) मुख्यामुख्यवीणयोः ; मुख्यवीणायां मत्तकोकिलायां, अमुख्यवीणायां विपञ्च्यादौ च अंशं संवादिनं च स्वरं विहाय, अन्यतरस्वरव्यञ्जिकया एकयैव तन्त्र्या करणं स्यात् , तदा प्रतिशुष्का ; इति प्रतिशुष्का (६) ॥ -११४-१२३-॥
इति षट् करणानि
(कc) धातून् लक्षयितुमादौ तत्प्रयोजनमाह-पुष्णन्तीत्यादि । धातुस्वरूपमाह-ये प्रहारेत्यादि ।। -१२४-१३४- ॥
Scanned by Gitarth Ganga Research Institute