________________
२५०
संगीतरत्नाकरः वाद्यते गुरुमुख्यायां यदा द्वे लघुनी तदा । विपञ्च्यादौ यदा त्वम्या लस्तदान्यासु दद्वयम् ।। ११७ ।।
इति रूपम् (१) एतत्कृतपतिकृतं पश्चात्प्रत्यङ्गवादने ॥ ११८ ॥
इति कृतप्रतिकृतम् (२) रूपक्रियाविपर्यासात्पतिभेदो भवेद्यथा । वाद्यते लद्वयं तज्ज्ञैर्मत्तकोकिलया यदा ॥ ११९ ।। गुरुस्तदा विपञ्च्यादिवीणादिरिति तद्विधिः ।
इति प्रतिभेदः (३) यदा विदारीविच्छेदं कुरुते मुख्यवैणिकः ॥ १२० ॥ तदान्यासां वादनं यद्रूपशेषं तदुच्यते ।
इति रूपशेषम् (४) यदा विलम्बितलयं प्रयुङ्क्ते मुख्यवैणिकः ॥ १२१ ।।
(सु०) करणैश्वित्रयन्त्य इत्युक्तम् , तत्र कानि करणानीत्यपेक्षायां विभागपूर्वकं करणानि लक्षयति-रूपमिति । रूपादिभेदेन करणं षड़िधम् । तेषां क्रमेण लक्षणमाह-मुख्येति । मुख्यवीणाप्रयुक्तस्य ; मुख्यायां वीणायां प्रयुक्तो यो गुर्वादि: गुरुः प्रयुक्त: लघुर्वा तस्य भञ्जनेन शकलीकरणेन विपच्यादिषु वीणासु युगपद्वादनं रूपम् । तदेव उदाहरणेन दर्शयति-तद्यथेति । तदेव रूपं पश्चात् प्रत्यङ्गवादने सर्वस्मिन्नपि गुर्वादौ वादिते सति स कृतप्रतिकृतम् ; इति कृतप्रतिकृतम् (२) पूर्वोक्तरूपक्रियया वैपरीत्ये प्रतिभेदः ; तमेव विवृत्य दर्शयति-यथेति । मुख्यो वैणिकः मत्तकोकिलया यदा लद्वयं लयद्वयं वाद्यते, तदा विपञ्च्यादिवीणाभि: तद्विधि: गुरुः क्रियते स प्रतिभेदः ; इति प्रतिभेदः (३) यदा मुख्यवैणिक: मत्तकोकिलाया वादयिता विदारीणां यदा विच्छेदं करोति, तदा अन्यासां विपञ्च्यादीनां वादनं रूपशेषः ; इति रूपशेष:
Scanned by Gitarth Ganga Research Institute