________________
२४९
षष्ठो वाद्याध्यायः रूपं कृतपतिकृतं प्रतिभेदस्ततः परम् । स्याद्रूपशेषमोघश्च प्रतिशुष्केति षड्डिधम् ॥ ११४ ॥ करणं तस्य वक्ष्यामि लक्ष्मोदाहरणैः समम् ॥ ११५ ।। मुख्यवीणापयुक्तस्य गुर्वादेर्भञ्जनेन यत।
युगपद्वादनं रूपं विपञ्च्यादिषु तद्यथा ॥ ११६ ॥ व्यतिरिक्ता वीणास्तु, तस्याः; मत्तकोकिलायाः । प्रत्यङ्गमीरिता इति । विकृतय इत्यर्थः । करणैश्चित्रयन्त्य इति । करणानि अनन्तरं वक्ष्यमाणानि रूपादीनि । तस्याः स्युरुपञ्जिका इति; तदनुवादित्वादित्यर्थः ॥ -१०९-११३ ॥
(सु०) नकुलादिलक्षणमाह-तन्त्रीति । द्वाभ्यां तन्त्रीभ्यां युक्तो नकुलः । त्रितन्त्रिका ; अन्वर्था, त्रिभिस्तन्त्रीभिर्युक्ता त्रितन्त्रिका ; सप्तभिः तन्त्रीभिः चित्रा ; नवभिः तन्त्रीभिः विपञ्ची इति । एतासां मध्ये चित्रा विपञ्ची च कोणेन वीणावादनेन वैणवादिना अङ्गुलीभिश्च वादनीया । मतान्तरमाह-क्रमादिति । अन्ये ; केचित् , तयोः ; चित्राविपञ्च्योः , अङगुलिकोणव्यवस्थाम् ; अङ्गुलिकोणे व्यवस्थाम् ऊचिरे, चित्रा अगुलीभिः, विपञ्ची कोणेनेति । परे; अन्ये तु, चित्रायाम् अगुलीमात्रम् ; विपच्याम ; अङ्गुलीमि: कोणेन च वादनीयेत्याहुः । एकविंशत्या एकविंशतिसंख्यामि: तन्त्रीभिः मत्तकोकिला । इयं ; मत्तकोकिला, सर्ववीणानां ; सर्वासां वीणानां मध्ये मुख्या, त्रिस्थानस्थैः सप्तभिः स्वरयुक्तत्वात् । अन्याः ; नकुलादयस्तु मत्तकोकिलाया अङ्गम् । ताश्च वक्ष्यमाणलक्षणैः करणैः, तां मत्तकोकिलां चित्रयन्त्यः तस्या उपरञ्जिकाः उपरञ्जनहेतवः ॥ -१०९-११३ ॥
(क०) रूपादीनां करणानां लक्षणान्याह-रूपमिति । मुख्यवीणाप्रयुक्तस्येति । तान्यपि स्पष्टार्थानि ॥ ११४-१२३- ।।
32
Scanned by Gitarth Ganga Research Institute