________________
२४८
संगीतरत्नाकरः अङ्केत च स्वरस्थानान्यमूनि सुखबुद्धये । यथास्वं स्वरभेदानां विभागाच्छूतिदेशधीः॥ १०८ ॥ स्याद्राममूर्च्छनादीनामुरोधः सुकरस्ततः । एषोऽपि जनकः प्रोक्ता घोषकश्चैकतन्त्रिका ॥ १०९ ।। तन्त्रीद्वयेन नकुलः स्यादन्वर्था त्रितन्त्रिका । तन्त्रीभिः सप्तभिश्चित्रा विपश्ची नवभिर्मता ।। ११० ।। कोणामुलीवादनीया चित्रा तद्वद्विपश्चिका । क्रमादन्येऽङ्गुलीकोणव्यवस्थामूचिरे तयोः ।। १११ ॥ चित्रायामगुलीमानं विपञ्च्यामुभयं परे । तन्त्रीणामेकविंशत्या कीर्तिता मत्तकोकिला ।। ११२ ।। मुख्येयं सर्ववीणानां त्रिस्थानैः सप्तभिः स्वरैः । संपन्नत्वात्तदन्यास्तु तस्याः प्रत्यङ्गमीरिताः । करणैश्चित्रयन्त्यस्तास्तस्याः स्युरुपरञ्जिकाः ॥ ११३ ॥
चतुर्धा विभजेत् । त्रिश्रुतीनां त्रिधा, द्विश्रुतीनां द्विधेति । एवं श्रुतिपरिज्ञाने ग्राममूर्च्छनातानकूटतानालंकारादीनामुत्कृष्टो बोध: सुगमः । एषोऽपि वीणाजनको घोषः एकतन्त्रीति चोच्यते ॥ -१०४-१०९॥
इत्येकतन्त्रीवीणालक्षणम
(क०) नकुलादीनां लक्षणान्यपि स्पष्टार्थानि । तत्र त्रितन्त्रिकैव लोके जन्त्रशब्देनोच्यते । मत्तकोकिलैव लोके स्वरमण्डलमित्युच्यते । मुख्येयमित्यादि । इयं ; मत्तकोकिला सर्ववीणानां मुख्या प्रकृतिरित्यर्थः । तत्र हेतुः-त्रिस्थानः सप्तभिः स्वरैः संपन्नत्वादिति । त्रिस्थानः, मन्द्रमध्यताराख्यस्थानत्रयोद्भूतैरित्यर्थः । तदन्यास्त्विति । मत्तकोकिलातो
Scanned by Gitarth Ganga Research Institute